तैत्तरीयोपनिषत्

उपनिषत्प्रस्थानम्

तैत्तरीयोपनिषद्यस्यां संहित्याख्यायां शिक्षावल्यां अङ्गभूतोपासनोपदेशपूर्वकं परविद्या प्रस्तूयते । आनन्दवल्यां परमतत्वहितपुरुषार्थप्रतिपादनं दृश्यते । वारुण्याख्यायां भृगुवल्यां तपोवधूतकल्मषमनसो ब्रह्मप्रतिपत्तिरित्यभिधीयते । अस्याः रचनाकाल (600 - 500 BC) इति विमर्शकाः । आनन्दाश्रममुद्रणालये मुद्रिताच । अस्या व्याख्या :-

1. शङ्कराचार्यकृतम् - तैत्तरीयभाष्यम् (ASS 12)

(क) अच्युतकृष्णानन्दकृता - भाष्यव्याख्या वनमाला

वनमालाख्या तैत्तरीयशाङ्करभाष्यव्याख्याऽनन्दाश्रमे वाणीविलासमुद्रणालये च मुद्रिता । अस्याः कर्ता अद्वैतानन्दस्वयम्प्रकाशसरस्वतीशिष्यः रामानन्दप्रशिष्यः सिद्धान्तलेशसंग्रहव्याख्याकृष्णालङ्कारकर्ता सप्तदशशतकापरार्धवासी (1650 - 1750 AD) अच्युतकृष्णानन्दतीर्थः ।

(ख) अभिनवनारायणेन्द्रकृता - भाष्यटिप्पणी

अमुद्रितोऽयं ग्रन्थः महीशरपुस्तकालये लभ्यते ।

(ग) आनन्दगिरिकृता - भाष्यटिप्पणी (ASS 12)

ज्ञानामृतयतिकृतं व्याख्यानं आनन्दगिरिव्याख्यायाः अस्तीति ज्ञायते ।

(घ) सुरेश्वराचार्यकृतम् - तैत्तरीयभाष्यवार्तिकम्

शाङ्करतैत्तरीयकभाष्यस्य पद्यमयी वार्तिकाख्या व्याख्या आनन्दाश्रममुद्रणालये (ASS 13) वाराणस्याञ्च मुद्रिता । अस्याःकर्ता शङ्कराचार्यशिष्येषु अन्यतमः पद्मपादादिसतीर्थ्यः अष्टमशतकवासी (800 AD) सुरेश्वराचार्यः ।

पूर्वाश्रमे शोणानदीतिरवासी पञ्चगौडान्तर्गतः कुमरिलभट्टजामाता पूर्वकाण्डप्रवर्तकः मण्डनमिश्र इति ख्यातः विश्वरूप एव सन्यासस्वीकारादनन्तरं सुरेश्वर इति प्रसिद्ध इति साम्प्रदायिकाः वदन्ति ।

"जागोप् महाशयेन नैष्कर्म्यसिद्धिभूमिकायां मण्डनमिश्रसुरेश्वरविश्वरूपाणामैक्यं स्वीक्रियते । सप्तदशशतकीयेन बालकृष्णानन्दसरस्वत्या कृते शारीरकमीमांसाभाष्यवार्तिके मण्डनमिश्रसुरेश्वरविश्वरूपाणामैक्यमेवोपवर्णितम् । विद्यारण्यै र्विववरणप्रमेयसंग्रहे बृहदारण्यकभाष्यवार्तिकादुद्धरणं दत्तम् । तत्रापि विश्वरूपशब्देन सुरेश्वर एव निर्दिष्टः ।।"

दासगुप्तस्तु सुरेश्वरविश्वरूपावभिन्नौ मण्डनमिश्रस्तु भिन्न इति (HIP Vol .II) वदति । हिरियण्णामहाशयस्तु (J. R. A. S. 1924) जर्नल आफ रायल आसियारिक सोसाइटि पत्रिकायां सुरेश्वरः मण्डनादन्य इति प्रतिपादयति ।

कुप्पुस्वामिशास्रिणस्तु ब्रह्मसिद्धिभूमिकायां सुरेश्वरब्रह्मसिद्धिकारयोस्सिद्धान्तगतभेदमुपवर्ण्य ब्रह्मसिद्धिकारः सुरेश्वरादन्य इति प्रतिपादयन्ति।

संक्षेपशारीरककर्ता सर्वज्ञात्मा सुरेश्वरशिष्य इति तु प्रसिद्धिः । सुरेश्वरश्च देवेश्वरशब्देन सर्वज्ञात्मना निर्दिष्ट इति तु पण्डितपरम्परागता वार्ता ।

श्रीकण्ठशास्त्री (I.H.Q. val. XIV) एवं (J.O.R. 1937) पत्रिकायां नायं सर्वज्ञात्मगुरुस्सुरेश्वर इति प्रतिवादयति । देवेश्वरस्त्वन्य इति च प्रतिपादयति । चिन्तामणिमहोदयेन च अङ्गीक्रियते । निरूपितञ्चैतदस्माभिर्विस्तरेण सर्वज्ञात्मप्रसङ्गे ।

श्रीकण्ठशास्त्रिणा प्रदर्शितायां शृङ्गगिरिगुरुपरम्परायां नित्यबोधघनाभिधः नित्यबोधाचार्य एव सुरेश्वरशिष्य इति निर्दिश्यते । नित्यबोधाचार्यकालश्च 773 - 848 इति च निर्दिश्यते । तस्मात् सर्वज्ञात्मन एव नित्यबोधाचार्य इति नामान्तरस्वीकारोऽपि सुष्ठु लगति ।

कुप्पुस्वामिशास्त्रिसिद्धान्तानुसारं, श्रीकण्ठशास्त्रिप्रदर्शितशृङ्गगिरिपरम्परानुसारञ्च सुरेश्वरकालः सप्तमाष्टमशतकमिति (620 - 777 A.D) इति सिध्यति ।

(A) आनन्दगिरिकृता - तैत्तरीयवार्तिकव्याख्या । ( ASS. 13)

(B) लिङ्गनसोमयाजिकृतम् - कल्याणविवरणम्

शाङ्करभाष्यार्थप्रकाशकः वार्तिकभावं सुलभं बोधयन् अयं ग्रन्थः शारदामुद्रणालये भटनविल्लीनगरे मुद्रितः ।

अस्य कर्ता श्रीरमणराज्यलक्ष्म्योः पुत्रः कल्याणानन्दभारतीशिष्यः आत्रेयगोत्रजः गुण्टूराख्यान्ध्रदेशवासी पञ्चदशीव्याख्याता विंशतिशतकीयः (1900 - 1950 A.D.) लिङ्गनसोमयाजीति ज्ञायते ।।

(C) विश्वानुभवकृता - तैत्तरीयभाष्यवार्तिकसङ्गतिः

अमुद्रितोऽयं ग्रन्थः मद्रासराजकीयहस्तलिखितपुस्तकालये (R 2929 M.G. O. M. L.) लभ्यते । अस्य कर्ता प्रत्यग्बोधभगवतशिशष्यः विश्वनुभव इति परं ज्ञायते ।।

2. अद्वैतानन्दतीर्थकृता - तैत्तरीयदीपिका

"तैत्तरीयोपनिषत्तात्पर्यदीपिका" नाम्ना प्रसिद्धोऽयं ग्रन्थः ब्रह्मविद्यामुद्रणालये मुद्रितः । अस्य कर्ता दक्षिणदेशवासी सदानन्दतीर्थशिष्यः, पूर्वश्रमे माध वसूरि-महालक्ष्म्योः पुत्रः हारीतगोत्रजः, आधुनिकोऽयं अद्वैतानन्द इति ज्ञायते । अदसीया ब्रह्मसूत्रवृत्तिरपि प्रतिपादिता ।।

3. उपनिषद्ब्रह्मेन्द्रकृतम् - तैत्तरीयविवरणम् । (A. L. S.)

4. तारकब्रह्माश्रमिकृताः - तैत्तरीयोपनिषत्सारसंग्रहः

अमुद्रितोऽयं ग्रन्थ अडयार पुस्तकालये लभ्यते । अस्य रचयिता दक्षिणदेशीयः रामचन्द्राश्रमिशिष्यः, कल्पतरुपरिमलसंग्रहकर्ता अष्टादशशतकीयः (1700 - 1800 A.D.) तारकब्रह्माश्रमीति ज्ञायते ।।

5. नारायणाश्रमिकृता - दीपिका । (ASS. 12)

6. बालकृष्णानन्दसरस्वतीकृतम् - तैत्तरीयविवरणम्

अमुद्रितोऽयं ग्रन्थः मद्रासराजकीयहस्तलिखितपुस्तकालये (R 383 M.G.O.M.L.) लभ्यते । अस्य कर्ता पद्यमयशारीरकमीमांसाभाष्यवार्तिककर्ता काञ्चीमण्डलान्तर्गतवेदपुरीवासी अभिनवद्रविडाचार्यबिरुदभूषितः, श्रीधरानन्दसरस्वत्याः प्राप्तदीक्षः, गौडब्रह्मानन्दसरस्वत्याश्शिष्यः, महादेवकैलासेशगुरुः सप्तदशशतकीयः (1600 - 1700 A.D.) बालकृष्णानन्दसरस्वतीति ज्ञायते ।

7. भास्करानन्दकृता - तैत्तरीयकव्याख्या

मुद्रितश्चायं ग्रन्थः भारतीजीवनमुद्रणालये वाराणस्याम् ।।

8. विज्ञानात्मकृता - तैत्तरीयकविवृतिः

अमुद्रितोऽयं ग्रन्थः मद्रासराजकीयपुस्तकालये (R. 3208 M.G.O.M.L) लभ्यते । अस्य कर्ता परमानन्दमस्करीत्यपरनामा ज्ञानोत्तमस्य शिष्यः चित्सुखाचार्यसतीर्थ्यः द्वादशशतकवासी (1100 - 1200 A.D.) विज्ञानात्मा इति ज्ञायते ।।

9. विद्यारण्यकृता - लघुदीपिका

अमुद्रितोऽयं ग्रन्थः मद्रासरजकीयपुस्तकालये (R. 1968 M.G.O.M.L) बरोडासूच्याञ्च लभ्यते । अस्य कर्ता विवरणप्रमेयसंग्रहकारः पञ्चदशीनिर्माता विद्यारण्यः ।।

(क) कृष्णानन्दश्रीरामशिष्यकृता - लघुदीपिकाटीका

विद्यारण्यकृतलघुदीपिकासारसंग्रहकारी ग्रन्थोऽयं अमुद्रितः सरस्वतीमहालये (1494 T.S.M.L) मद्रासराजकीयपुस्तकालये (D. 515 M.G.O.M.L) च लभ्यते ।

10. वेङ्कटनाथकृता - तैत्तरीयकटीका

ग्रन्थोऽयं वेङ्कटनाथकृतायां ब्रह्मानन्दगिरिनाम्न्यां भगवद्गीताव्याख्यायां (461 V.V.P. Edn.) ग्रन्थकारेणैव निर्दिष्टंः ।

11. शङ्करानन्दकृता - दीपिका । (ASS 12)

12. सीतारामकृतम् - तैत्तरीयकव्याख्यानम् आगमामृतम्

अमुद्रितोऽयं ग्रन्थः मद्रासराजकीयहस्तलिखितपुस्तकालये (D.514 M.G.O.M.L) लभ्यते । ग्रन्थोऽयं शिक्षावल्याः परं लभ्यते । अस्य कर्ता उत्तरमायूर क्षेत्रवासी कौण्डिन्यगोत्रजः वीरमाम्बागर्भजः अच्चन्नासूरिपुत्रः शिष्यश्च सप्तदशशतकीयस्तीतारामशास्त्रीति ज्ञायते ।।

13. अज्ञातकर्तृका - तैत्तरीयकव्याख्या

ग्रन्थोऽयं मद्रासराजकीयहस्तलिखितपुस्तकालये (D 508 M.G.O.M.L) लभ्यते ।।

उपनिषत्प्रस्थानम्

इतरे उपनिषदः

अथर्वशिखोपनिषत्
अथर्वशिर उपनिषदः
अमृतनादोपनिषत्
अमृतबिन्दूपनिषत्
आत्मप्रबोधोपनिषत्
आरुणिकोपनिषत्
कैवल्योपनिषत्
कौषीतक्युपनिषत्
क्षुरिकोपनिषत्
गोपालतापिन्युपनिषत्
जाबालोपनिषत्
नारायणोपनिषत्
नृसिम्हतापनीयोपनिषत्
ब्रह्मविद्योपनिषत्
ब्रह्मोपनिषत्
महोपनिषत्
रामतापिन्युपनिषत्
श्वेताश्वतरोपनिषत्
हंसोपनिषत्