प्रश्नोपनिषत्

उपनिषत्प्रस्थानम्

अस्यामुपनिषदि सृष्टिप्रकारः, प्राणस्य प्राधान्यम् , प्राणविद्योपासनम् , परविद्याविचारः, प्रणवोपासनम् , षोडशकलपुरुषविचारश्व विविच्य प्रतिपादिताः । अर्थर्ववेदीया इयमुपनिषत् । अस्या रचनाकाल (500 - 400 B.C.) इति विमर्शकाः । मुद्रिता चानन्दाश्रममुद्रणालये ।

1. शङ्कराचार्यकृतम् - प्रश्नोपनिषद्भाष्यम् (ASS 8)

वाणीविलासमुद्रणालये आनन्दाश्रमे च मुद्रितम् ।

(क) अभिनवनारायणसरस्वतीकृता - भाष्यव्याख्या

अमुद्रितेयं व्याख्या मद्रासराजकीयहस्तलिखितपुस्तकालये (D. 621 MGOML) अडयारपुस्तकालये बरोडासूच्याञ्च (6944 DCBRD) दृश्यते ।

(ख) आनन्दगिरिकृतम् - भाष्यटिप्पणम् ।

यद्यपि आनन्दगिरिकृता इति व्याख्येयमानन्दाश्रमे मुद्रिता तथापि आनन्दगिरेरर्वाचीनाया विद्यारण्यकृतदीपिकायास्तत्रोल्लोखात् नेयं प्रसिद्धानन्दगिरिकृता भवितुमर्हति । शुद्धानन्दादिगुरुस्मरणमपि न तत्र दृश्यते । मुद्रितग्रन्थस्य अन्तिमपुष्पिकायां विद्यमानः " कैवल्येन्द्रशिष्यज्ञानेन्द्रगुरुचरणसेविनारायणेन्द्रसरस्वतीविरचितं प्रश्नोपनिषद्भाष्यविवरणं समाप्तम् " इति पाठभेदोऽपि आनन्दगिरिकृतत्वे संशयमुत्पादयति ।।

(ग) शिवानन्दयतिकृतम् - भाष्यटिप्पणम्

अमुद्रितोऽयं ग्रन्थः मद्रासराजकीयहस्तलिखितपुस्तकालये (D.389) अडयारपुस्तकालये च लभ्यते ।।

(घ) अज्ञातकर्तृकम् - भाष्यटिप्पणम्

अमुद्रितोऽयं ग्रन्थः मद्रासपुस्तकालये (D. 620 MGOML) लभ्यते ।

2. उपनिषद्ब्रह्मेन्द्रकृतम् - प्रश्नोपनिषद्विवरणम् । (ALS)

3. नारायणाश्रमिकृता - दीपिका । (ASS 8)

4. शङ्करानन्दकृता - दीपिका । (ASS 8)

उपनिषत्प्रस्थानम्

इतरे उपनिषदः

अथर्वशिखोपनिषत्
अथर्वशिर उपनिषदः
अमृतनादोपनिषत्
अमृतबिन्दूपनिषत्
आत्मप्रबोधोपनिषत्
आरुणिकोपनिषत्
कैवल्योपनिषत्
कौषीतक्युपनिषत्
क्षुरिकोपनिषत्
गोपालतापिन्युपनिषत्
जाबालोपनिषत्
नारायणोपनिषत्
नृसिम्हतापनीयोपनिषत्
ब्रह्मविद्योपनिषत्
ब्रह्मोपनिषत्
महोपनिषत्
रामतापिन्युपनिषत्
श्वेताश्वतरोपनिषत्
हंसोपनिषत्