ऐतरेयोपनिषत्

उपनिषत्प्रस्थानम्

ऋग्ब्राह्मणान्तर्गतेयमुपनिषत् । अध्यायत्रिकरूपाया अस्या उपनिषदः खण्डषट्कं विद्यत इति कृत्वोपनिषदियम् आत्मषट्क मित्यपि प्रसिद्धा । अस्यामुपनिषदि त्रिष्वध्यायेषु सर्वशरीरस्य ब्रह्मणः जगत्सृष्ट्यादिवर्णनम्, बद्धस्य जीवात्मनो वैराग्योदयाय गर्भप्रवेशदुःखानुभवादिनिरूपणं, निश्श्रेयसावाप्त्यर्थं परमात्मोपासनञ्च प्रतिपाद्यते । अस्या रचनाकाल (600 - 500 B.C) इति विमर्शकाः । मुद्रिता चेयमुपनिषदानन्दाश्रममुद्रणालये । अस्या व्याख्याः -

१. शङ्कराचार्यकृतम् - ऐतरेयमाष्यम्

मुद्रितश्चायं ग्रन्थ आनन्दाश्रममुद्रणालये वाणीविलासमुद्रणालये च ।

(क) अभिनवनारायणेन्द्रकृता - भाष्यव्याख्या

अमुद्रितोऽयं ग्रन्थ मद्रासराजकीयहस्तलिखितपुस्तकालये (R. 1475 MGOML) अडयारपुस्तकालये च लभ्यते ।

अस्याः कर्ता कैवल्येन्द्रसरस्वतीप्रशिष्यः ज्ञानेन्द्रसरस्वतीशिष्य अग्निहोत्रभट्टसतीर्थ्यः परमशिवेन्द्रसरस्वतीगुरुः षोडशसप्तदशशतकमध्यवासी (1550 - 1650 A.D) अभिनवनारायणेन्द्रसरस्वतीति विज्ञायते । अदसीया अन्येऽपि ग्रन्थास्तत्तत्प्रकरणे वर्णिताः ।।

(ख) आनन्दगिरिकृता - भाष्यटिप्पणी

मुद्रितश्चांय ग्रन्थ आनन्दाश्रममुद्रणालये । ग्रन्थेऽस्मित् ( Page 28) विद्यारण्यकृता दीपिका निर्दिष्टा । विद्यारण्यश्चानन्दगिरेरर्वाचीन इति प्रसिद्धिः ।

तस्मात् न प्रसिद्धोऽयमानन्दगिरिरस्य कर्ता । परन्तु यः कोऽप्यन्य एव स्यात् । मुद्रितग्रन्थे शुद्धानन्दादिगुरुवन्दनापि न दृश्यते ।।

(ग) ज्ञानामृतयतिकृता - भाष्यटिप्पणी

अमुद्रितोऽयं ग्रन्थः मद्रासराजकीयहस्तलिखितपुस्तकालये (D. 332 MGOML) लभ्यते । ग्रन्थादस्मात् सायणाचार्यसामयिकोऽयमिति ज्ञायते । उत्तमामृत - आनन्दाख्ययोश्शिष्यः, सायणाचार्यसामयिकः नैष्कर्म्यसिद्धिव्याख्याविद्यासुरभिकर्ता चतुर्दशशतकीय (1350 A.D.) ज्ञानामृतयतिरिति ज्ञायते ।। नृसिम्हाश्रमकृता भाष्यव्याख्या चास्तीती श्रूयते । सीतानाथतर्कभूषणेन आधुनिकेन कृता 'शङ्करकृपा' नाम्नी व्याख्या च मुद्रिता ।

(घ) उपनिषद्ब्रह्मेन्द्रकृतम् - भाष्यविवरणम् ।

अमुद्रितोऽयं ग्रन्थ अडयारपुस्तकालये (36 F. 14 ग्र 79 A.L) लभ्यते अस्य कर्ता उपनिषद्ब्रह्मेन्द्रः वासुदेवेन्द्रशिष्यः अष्टादशशतकीय इति प्रतिपादि तमन्यत्र ।।

२. भास्करानन्दकृता - ऐतरेयदीपिका (व्याख्या)

मुद्रितश्चायं ग्रन्थः भारतीजीवनमुद्रणालये वाराणस्याम् । अस्याः कर्ता एकोनविंशतिशतकीयः भास्करानन्दः पूर्वमुपपादितः ।

३. विद्यातीर्थकृता - ऐतरेयदीपिका

अमुद्रितोऽयं ग्रन्थः वेङ्कटेश्वरपुस्तकालये तत्सूच्याञ्च लक्ष्यते । अस्याः कर्ता रुद्रप्रश्नभाष्यकर्ता नृसिम्हतीर्थशिष्यः भारतीतीर्थविद्यारण्यगुरुः, कृष्णानन्दभारती - ब्रह्मानन्दभारती-विद्यारण्यानां प्रगुरुः, विद्याशङ्करश्शङ्करानन्द इत्यपरनामा त्रयोदशशतकीयः ( 1228 - 1333 A.D) विद्यातीर्थ इति ज्ञायते । विद्यारण्यकृताया दीपिकाया दीपिकाया इयं भिद्यते न वा इति न निश्चेतुं शक्यते ।

४. विद्यारण्यकृता - ऐतरेयदीपिका

मुद्रितश्चायं ग्रन्थ आनन्दाश्रममुद्रणालये । अस्य कर्ता विद्यारण्यः श्रीकण्ठाचार्यशङ्करानन्दभारतीतीर्थानां शिष्यः, विद्यातीर्थप्रशिष्यः, रामकृष्ण - कृष्णानन्दभारतीब्रह्मानन्दभारतीगुरुः पञ्चदश्यादिग्रन्थप्रणेता चतुर्दशशतकीयः (1300 - 1400 A.D) इति ज्ञायते । ग्रन्थस्यास्य भाष्यमिति नाम सरस्वतीमहालयस्थे पुस्तके (1451 TSML) दृश्यते ।

५. शङ्करानन्दकृता - ऐतरेयदीपिका

ग्रन्थोऽयं शृङ्गगिरिसृच्यां दृश्यते ।।

उपनिषत्प्रस्थानम्

इतरे उपनिषदः

अथर्वशिखोपनिषत्
अथर्वशिर उपनिषदः
अमृतनादोपनिषत्
अमृतबिन्दूपनिषत्
आत्मप्रबोधोपनिषत्
आरुणिकोपनिषत्
कैवल्योपनिषत्
कौषीतक्युपनिषत्
क्षुरिकोपनिषत्
गोपालतापिन्युपनिषत्
जाबालोपनिषत्
नारायणोपनिषत्
नृसिम्हतापनीयोपनिषत्
ब्रह्मविद्योपनिषत्
ब्रह्मोपनिषत्
महोपनिषत्
रामतापिन्युपनिषत्
श्वेताश्वतरोपनिषत्
हंसोपनिषत्