केनोपनिषत्

उपनिषत्प्रस्थानम्

खण्डचतुष्टयेन विभक्तायामस्यां केनोपनिषदि प्रथमखण्डे मनःप्रभृतिकरणप्रवृत्तेश्चेतनायत्तत्वेन तत्प्रवर्तकचेतनविशेषस्य परब्रह्मत्वमभिधीयते । द्वितीयखण्डे ब्रह्मणोऽपरिच्छिन्नत्वात् तस्य कार्त्स्न्येन विज्ञातुमशक्यत्वेन योग्यैकदेशज्ञानादेव इष्टावाप्तिरित्यभिधीयते । तृतीयखण्डे - परं ब्रह्म कार्त्स्न्येन ज्ञातुमशक्यमित्यस्मिन्नर्थे ब्रह्मानुप्रवेशलब्धासुरविजयानां स्वेषामेव जेतृत्वाभिमानवतां देवानां गर्वापनोदनमुखेन स्वमाहात्म्यं यक्षरूपधरेण ब्रह्मणा प्रकाशितमित्याख्यायिकाभिधीयते । चतुर्थखण्डे यक्षरूपधरे ब्रह्मणि देवानामुपदेशाय हैमवतों देवीमाकाशेऽवस्थाप्या अन्तर्हिते सति तया देव्या इन्द्रः, तस्माच्चान्येऽपि आघिदैवताध्यात्मात्मरूपां उपास्याब्रह्मणो रूपमजानन् । अस्या रचनाकाल (500 - 400 B.C) इति विमर्शशीलाः । मुद्रिता चेयमुपनिषत् सव्याख्याऽनन्दाश्रममुद्रणालये ।।

अस्या व्याख्या :-

1. शङ्कराचार्यकृतम् -

1. पदभाष्यम्

2. वाक्यभाष्यम्

मुद्रितञ्चेदं भाष्यद्वयमानन्दाश्रममुद्रणालये । किमेतत् भाष्यद्वयमपि शङ्कराचार्यकृतम् ? उत नेति विमृश्यते -

भाष्यद्वयस्यापि एककर्तृकत्वे अर्थैक्यं अभिप्रायसाम्यञ्चापेक्ष्यते । तत्तु नात्रोपलभ्यते । वैलक्षण्यस्य दर्शनात् । वैलक्षण्यानि -

(क) पदभाष्ये "नाहं मन्ये सुवेदेति" 2-10 मन्त्रे अहमिति पाठं गृहीत्वा व्याख्यातम् । वाक्याभाष्ये तु अवधारणार्थकं अह इति पाठं गृहीत्वा व्याख्यातम् । यद्युभयोर्भाष्ययोरेकः कर्ता स्यात्तर्हि मया पदभाष्येऽयं पाठो व्याख्यात इत्याद्युच्येत । न तथोक्तमिति कर्तुर्वैलक्षण्यं स्पष्टम् ।

(ख) पदभाष्ये 1-1 मन्त्रे " प्रेषित " इत्यस्यार्थः प्रेरितमिति वर्णितः। वाक्यभाष्ये तु तस्यैव " प्रेषितमिव " इति पूर्वविलक्षणोपमार्थ उपवर्णितः ।

(ग) पदभाष्ये " श्रोत्रस्य श्रोत्रम् " 1-2 मन्त्रे श्रोत्रमाद्याः प्रथमास्सन्तीति साधितम् । वाक्यभाष्ये तु तत्रैव प्रथमास्सन्तीति साधितम् । वाक्यभाष्ये तु तत्रैव प्रथमाद्वितीयेति विभक्तिद्वयं साध्यते ।

(घ) 1-3 मन्त्रे, 2-9 मन्त्रे, च अवतरणिकाभेदस्सन्दृश्यते । 1-4 मन्त्रे पदवाक्यभाष्ययोरक्षरार्थसाम्येऽपि अभिप्रायभेदो दृश्यते । "भूतेषु भूतेषु विचित्य" 2-13 मन्त्रे विचित्येत्यस्य पदवाक्यभाष्ययोर्भिन्नार्थता च दृश्यते ।

एवमादिभिर्वैलक्षण्यदर्शनैः पदभाष्यवाक्यभाष्ययोर्निर्मातारौ भिन्नाविति प्रतीयते । एवं भिन्नकर्तृकत्वे सिद्धे कतरत् पूर्वम् किं पदभाष्यम् ? उत वाक्यभाष्यम् ? इति विमर्शः कर्तव्यः।

केनोपनिषदां पदभाष्यं भगवत्पूज्यपादानां आदिशङ्कराणां कृतिः। वाक्यभाष्यन्तु तदनुयायिनां श्रीशङ्करपीठमधिष्ठितानां केषाञ्चिदाचार्याणामित्यस्माकं मतिः। तत्रेमानि कारणानि -

पदभाष्यापेक्षया वाक्यभाष्ये श्रुत्यन्तराणां प्रमाणार्थनिर्देशोऽल्पीयान् । यत्र तत्र पूर्वपक्षखण्डनेश्वरसिध्यादिर्लेखो भूयान् दृश्यते । आद्याचायों हि उन्मूलमप्रासङ्गिकं उपनिषद्भाष्ये न कदापि लिखति । उपनिषदां बहूनि वाक्यानि आद्याचार्याणां ग्रन्थे सम्भवन्ति। तस्मात् बाक्यभाष्यं आद्याचार्येतरकृतमिति भाति ।

"प्रतिबोधविदितम् " 2 - 22 इति मन्त्रे वाक्यभाष्ये प्रतिबोधमित्यस्यार्थत्रितयं वर्णितम् । तत्र द्वितीयव्याख्या सद्योमुक्तिं प्रत्याययति । सद्योमुक्तिश्च न शास्त्रीया । एतादृशमशास्त्रीयं मतमाद्याचार्याः कदापि न प्रतिपादयन्तीति वाक्यभाष्यमाद्याचार्ये तरकृतम् । पदभाष्ये यथाक्रमं शब्दशो विवरणम् । वाक्यभाष्ये तु सुगमशब्दविशिष्टो मन्त्रो न व्याख्यायते । आद्याचार्याणां सर्वत्रेयं परिपाठी यत् ते यथाक्रमं सर्वान् शब्दान्‌ निर्दिशन्ति, विशिष्टशब्दान् व्याख्यान्ति च ।

वाक्यभाष्ये चतुर्थखण्डे षष्ठमन्त्रे "सेवन्ते स्म" इति पदं निरर्थकं प्रयुक्तम् । एवं निरर्थकशब्दप्रयोग आद्याचार्याणां ग्रन्थे न सञ्जाघटीति इदं तत्कृत न सम्भवति ।

अत्र केचन साम्प्रदायिका इत्थं समादधते यत् - यथाऽन्यासामुपनिषदां मन्त्रान् विषयवाक्यत्वेन गृहीत्वा तेषां व्याख्यानं आचार्यैः सूत्रभाष्ये कृतं तथा केनोपनिषत्स्थमन्त्राणां न कृतम् । तत्रत्यानां मन्त्राणां विषयवाक्यत्वाभावात् । तेन पदभाष्यं कृत्वाऽपरितुष्यन्तो भगवत्पादा पुनर्वाक्यभाष्यमकुर्वन्निति । अतएव "पदशो व्याख्यायापि न तुतोष भगवान् भष्यकार" इत्यानन्दज्ञानोक्तिस्सङ्गच्छत इति च । परं तन्न विचारसहम् । यतो यथा केनोपनिषत्स्थमन्त्राः न विषयवाक्यत्वेन सूत्रभाष्ये व्याख्याता तथा ईशावास्यमन्त्रा अपि विषयवाक्यत्वेन ब्रह्मसूत्रे न व्याख्याताः । ततश्च ईशावास्योषनिषदि भगवत्पूज्यपादैः भाष्यान्तरं कृतं स्यात्, तत्तु नोपलभ्यते । तेन पूर्वोक्तं समाधानं स्थवीयः। किञ्चैतत्समाधानं पूवोंक्तवैलक्षण्यविवरणं न सहत इति तु अन्यदेतत् । तस्मात् पदभाष्यं प्राचीनं, वाक्यभाष्यं पश्चात्तनमिति सिध्यति ।

अयं वाक्यभाष्यकृत् शङ्करानन्दात्प्राक्तनः। शङ्करानन्दो विद्यारण्यगुरुः । तेन शङ्करानन्दकालः त्रयोदशशतकं भवितुमर्हति । शङ्करानन्देन च "व्याकरिष्ये पदाध्वना" इति तत्कृतदीपिकायां कथ्यते । आनन्दगिरिणा तु ऐतरेयोपनिषद् भाष्यव्याख्यायां विद्यारण्यीयैतरेयोपनिषद्दीपिकास्थवाक्यस्य निर्देशात् शङ्करानन्दादर्वाचीनेन भाव्यम् । तस्मात् भाष्यद्वये व्याख्याकरणं सुसङ्गतमेव । 'अपरितुष्य' न्निति अवतरणिकाप्रदानमपि तन्मत्यनुसारं न विरुध्यते च ।

तस्मात् - शाङ्करपीठाधिष्ठितेनान्येन केनचित् एकं भाष्यं केनोपनिषदि कृतम् । तस्य वाक्यभाष्यमिति सज्ञा कृता । परं कालवशात् अज्ञात्वा तत्कर्तारं भाष्याध्यायिभिरस्य वाक्यसंज्ञां दृष्ट्वा पूर्वभाष्यस्य पदसज्ञा कृता भवेत् इति निश्चीयते ।।

भाष्यव्याख्याः -

(क) अभिनवनारायणेन्द्रकृता - भाष्यटीका

अमुद्रितोऽयं ग्रन्थ औंधसूच्यां (XXI 26) दृश्यते । अभिनवनारायणेन्द्रः पूर्वमुपपादितः ।

(ख) आनन्दगिरिकृता - भाष्यटिप्पणी

मुद्रितश्चायं ग्रन्थ आनन्दाश्रममुद्रणालये । उपपादितपूर्वश्चायमानन्दगिरिः ।

(ग) शिवानन्दयतिकृता - भाष्यटिप्पणी

अमुद्रितोऽयं ग्रन्थः मद्रासराजकीयहस्तलिखितग्रन्थागारे (D 392) लभ्यते । सरस्वतीमहालयसूच्याञ्च दृश्यते । अस्य कर्ता शिवानन्दयतिः पूर्वमुपपादितः ।।

(घ) श्रीधरशास्त्रिकृता - भाष्यव्याख्या बालबोधिनी

मुद्रितश्चायं ग्रन्थः पूनानगरे । अस्य कर्ता श्रीधरशात्री डेक्कानसंस्कृतकलाशालाप्रधानाध्यापकः त्र्यम्बकशास्त्रिपुत्रः विंशतिशतकीय इति पूर्वमुपपादितम् ।। आधुनिकेन सच्चिदानन्देन्द्रसरस्वत्या कृता काचन भाष्यव्याख्या मुद्रिता च विद्यते ।

2. उननिषद्व्रह्मेन्द्रकृतम् - केनोपनिषद्विवरणम्

मुद्रितश्चायं ग्रन्थ अदृयार पुस्तकालये । अस्य कर्ता उपनिषद्बह्मेन्द्र पूर्वमुपपादितः ।

3. कृष्णलीलाशुककृता - केनोपनिषद्व्याख्या, शङ्करहृदयङ्गमा

मुद्रितश्चायं ग्रन्थः मद्रासराजकीयहस्तलिखितपुस्तकालयसंस्कृतग्रन्थमालायाम् । ग्रन्थेऽस्मिन् क्षीरस्वामी बुद्धाः शङ्कराचार्याश्च निर्दिष्टाः ।

अस्याःकर्ता कृष्णलीलाशुकः । अयमेव बिल्वमङ्गलाचार्य इति प्रसिद्धः। यद्येवमस्य पिता दामोदरः । माता नीलीनाम्नी । ईशानदेवशिष्योऽयं कृष्णलीलाशुकः केरलदेशवासी कोच्चिनूसाम्राज्यवर्तिनि तिरुच्चूरन्तर्गते तेक्कमठे लब्धवासः

(1220 - 1300 A.D.) काले उवासेति प्राच्यभाषामहासम्मेलनपत्रिकायाः नवमे भागे दृश्यते ।

यद्ययं कृष्णलीलाशुकः सरस्वतीकण्ठाभरणव्याख्यापुरुषकार - कृष्णलीलामृतादिकर्ता स्यात् तर्हि अस्य कालः द्वादशत्रयोदशशतकोत्तरार्धपूर्वार्धावधिक इति निर्णेतुं शक्यते । यतः पुरुषकारे हेमचन्द्र उद्धृतः । हेमचन्द्रकालस्तु (1166 - 1220 A.D.) । पुरुषकारस्य पंक्तयः देवराजकृतायां निघण्डुटीकायां उद्धृताः । देवराजकालस्तु (1293 - 1343 A.D.) । एवञ्च तयोर्मध्यपाती पुरुषकारकर्तायं कृष्णलीलाशुकः (1168 - 1293 A.D.) काले आसीदिति निर्णेतुं शक्यते ।

सीतारामजयराम जोशी तु कृष्णलीलाशुकं एकादशशतकीयं (1100 A.D.) स्वीये संक्षिप्तसाहित्येतिहासे वदति ।

श्रीचिह्ननामा कश्चन ग्रन्थः कृष्णलीलाशुकेन रचितः। तत्रायं श्लोकस्सन्दृश्यते । "श्रीपद्मपादमुनिवर्यविनेयवर्गश्रीभूषणं मुनिरसौ कविसार्वभौमः" इति । पद्यादस्मात् पद्मपादशिष्यः कृष्णलीलाशुक इति वक्तुं शक्यते । केनोपनिषद्व्याख्यायां (Page 10) दृश्यमाना "ब्रह्म भूयं गते पूर्वे शंकरे कृत्स्नवेदिनि । पूर्वे च तादृशे" इति श्लोकीया "पूर्वे च तादृशे " इति पंक्तिरपि पद्मपादाचार्यं निर्दिशतीव लक्ष्यते । एवञ्च वेदान्ते पद्मपादाचार्यशिष्योऽयं कृष्णलीलाशुकः नवमशतकीय इति सिध्यति । अत एव "इण्डियन् हिस्टारिकल रेव्यू" नामकपत्रिकायां सप्तमे भागे (I.H.R VII Page 334) कृष्णलीलाशुकः नवमशतकीय इति प्रतिपादितम् । केचित्तु वङ्गदेशीयं वदन्ति।

4. नारायणाश्रमिकृता - केनोपनिषद्दीपिका

मुद्रितश्चायं ग्रन्थ आनन्दाश्रममुद्रणालये । बालकृष्णानन्दसरस्वत्या कृता काचन व्याख्या अमुद्रिता लन्दननगरकार्यालयपुस्तकालये विद्यते ।

5. भास्करानन्दकृता - केनोपनिषद्व्याख्या

मुद्रितश्चायं ग्रन्थः भारतजीवनमुद्रणालये वाराणस्याम् ।

6. शङ्करानन्दकृता - केनोपनिषद्दीपिका

मुद्रितश्चायमपि ग्रन्थ आनन्दाश्रममुद्रणालये ।।

उपनिषत्प्रस्थानम्

इतरे उपनिषदः

अथर्वशिखोपनिषत्
अथर्वशिर उपनिषदः
अमृतनादोपनिषत्
अमृतबिन्दूपनिषत्
आत्मप्रबोधोपनिषत्
आरुणिकोपनिषत्
कैवल्योपनिषत्
कौषीतक्युपनिषत्
क्षुरिकोपनिषत्
गोपालतापिन्युपनिषत्
जाबालोपनिषत्
नारायणोपनिषत्
नृसिम्हतापनीयोपनिषत्
ब्रह्मविद्योपनिषत्
ब्रह्मोपनिषत्
महोपनिषत्
रामतापिन्युपनिषत्
श्वेताश्वतरोपनिषत्
हंसोपनिषत्