अथर्वशाखान्तर्गतायां प्रत्येकं खण्डद्वितययुतमुण्डकाख्यप्रकरणत्रितयविभक्तायामस्यां उपनिषदि ब्रह्मविद्योपदेशपरम्पराप्रदर्शनपूर्वकं ब्रह्मज्ञानसाधनभूतपरापरविद्यास्वरूपादिकमभिधाय परविद्यावेद्याब्रह्मणः स्वरूपं प्रकाश्य तस्मादेव जगतस्संग्रहेण प्रादुर्भावमुपवर्ण्य मुमुक्ष्वमुमुक्षुकर्तव्यानि च संगृह्य ब्रह्मणो जगत्सृष्टिं विस्तरतः, प्रतिपाद्य प्रणवाख्याशरेण ब्रह्मात्मकलक्ष्यभेदनप्रकारमुक्त्वा प्राप्यस्वरूपतत्प्राप्तिप्रकारतत्साधनादिकं ब्रह्मविदाऽङ्गीरसा शौनकायोपदिष्टं दृश्यते ।। अस्या रचनाकालः (500 - 400 BC) इति विमर्शकाः । मुद्रिता चेयमुपनिषदानन्दाश्रममुद्रणालये ।
अस्या व्याख्यादि -
अमुद्रितोऽयं ग्रन्थ "औध " सूच्यां (XXI 26) दृश्यते ।
अमुद्रितोऽयं ग्रन्थः सरस्वतीमहालयसूच्यां (1563 DCTSML) मद्रासराजकीयपुस्तकालये (D. 722 MGOML) च लभ्यते ।
अमुद्रितोऽयं ग्रन्थस्सरस्वती महालयसूच्यां (1561 DCTSML) लभ्यते ।
अथर्वशिखोपनिषत्
अथर्वशिर उपनिषदः
अमृतनादोपनिषत्
अमृतबिन्दूपनिषत्
आत्मप्रबोधोपनिषत्
आरुणिकोपनिषत्
कैवल्योपनिषत्
कौषीतक्युपनिषत्
क्षुरिकोपनिषत्
गोपालतापिन्युपनिषत्
जाबालोपनिषत्
नारायणोपनिषत्
नृसिम्हतापनीयोपनिषत्
ब्रह्मविद्योपनिषत्
ब्रह्मोपनिषत्
महोपनिषत्
रामतापिन्युपनिषत्
श्वेताश्वतरोपनिषत्
हंसोपनिषत्