उपनिषत्प्रस्थानम्

प्रस्तावना

वैदिकसाहित्ये उपनिषदां स्थितिरन्यादृशी । औपनिषदानां महर्षीणां कार्यात्मकविश्वब्रह्माण्डस्य अभिन्नत्वे अखण्डत्वे च महान् विश्वासः दरीदृश्यते । औपनिषदा मुनयस्सुखदुःखेभ्य उदासीना दृश्यन्ते । सान्तस्यानन्तेन सम्बन्धः औपनिषदानां महर्षीणां रहस्यात्मकवाणीष्वेव प्रथमं अभिव्यक्तः ।

ब्राह्मणग्रन्थास्तु कर्मसु पुरुषं प्रेरयन्ति । उपनिषदस्तु ज्ञाने प्रेरयन्ति । जीवनात् जीवनसम्बद्धविचारे उपनिषदामैदम्पर्यं दृश्यते । वेदकालिका भारतीया ऐहिकस्यैश्वर्यस्य साधने यथा बद्धपरिकरा दृश्यन्ते, यथा च ब्राह्मणकालिका भारतीयास्स्वर्गादिपरलोकेप्सवश्व दृश्यन्ते न तथोपनिषत्कालिका भारतीयाः । परन्तु ते साधका ऐहिकैश्वर्यात् परलोकेच्छायाश्चोदासीनाः मुमुक्षवश्च दृश्यन्ते । गतिशीलैः प्राकृतिकवस्तुभिरेव जनिमतां न सम्बन्धः, परन्तु अनिर्वचनीयेन केनचित् स्थिरतत्वेनैव तेषां सम्बन्ध इत्युपनिषत्कालवर्तिनां भारतीयानां सिद्धान्तः । अतएवोपनिषदां सिद्धान्ताः विचारप्रधाना वर्तन्ते ।

उपनिषदः गम्भीरानर्थान् काव्यसुलभया गद्यपद्यात्मकशैल्या प्रतिपादयन्ति । परम् उपनिषदः नैककर्तृकाः । यत एकस्यामेवोपनिषदि शिक्षकभेदो दृश्यते ।

उपनिषदां संख्याः -

सवोंपनिषदां मध्ये सारमष्टोत्तरं शतम् ।
सकृच्छ्रवणमात्रेण सर्वाघौघविकृन्तनम् ।। (१ - ४४ ) इति

अष्टोत्तरशतोपनिषदां सारभूतत्वं प्रतिपादयन्त्या मुक्तिकोपनिषदा अष्टोत्तरशताधिकानां उपनिषदां सत्वे प्रमाणमप्यावेदितं भवति। परन्तु न तास्सर्वा उपनिषद अद्यावधि प्रकाशिता उपलब्धाः वा सन्ति । काश्चनोपनिषद अडयारपुस्तकालयात् प्रकाशतां नीतः। तास्वष्टोत्तरशतोपनिषत्सु दशोपनिषद ऋग्वेदीयाः, एकोनविंशत्युपनिषदश्शुक्लयजुर्वेदीयाः, द्वात्रिंशदुपनिषदः कृष्णयजुर्वेदीयाः, षोडशोपनिषदस्सामवेदीयाः, एकत्रिंशदुपनिषद अथर्ववेदीया इति ज्ञायते ।

अष्टोत्तरशतोपनिषत्स्वपि विषयप्रतिपादनदृष्ट्या त्रयोदशोपनिषद एव प्राचीनतमा इति ज्ञायन्ते । ऐतरेय - कौषीतक्युपनिषद ऋग्वेदीयाः, छान्दोग्याकेनोपनिषदस्मामवेदीयाः, तैत्तरीय नारायण - कठ - श्वेताश्वतर - मैत्रायण्युपनिषदः कृप्णयजुर्वेदीयाः, ईशावास्योपनिषच्छुक्लयजुर्वेदीया बृहदारण्यकोपनिषदपि शुक्लयजुर्वेदीया, मुण्डकमाण्डूक्यप्रश्नोपनिषद अथर्ववेदीया इति च प्रसिद्धाः । एतास्वपि दशोपनिषदामेव शङ्करभगवत्पादैर्भाष्यं कृतमिति ता एवात्र प्रधानतमास्स्वीक्रियन्ते। नृसिम्होत्तरतापिनीकौषीतकी- श्वेताश्वतरोपनिषदामपि व्याख्याः दृश्यन्ते । अतः अद्वैताचार्यैः व्याख्याताः अथवा व्याख्यातत्वेन प्रसिद्धाः सर्वा अप्युपनिषदः निर्देशार्हा इति सामान्यं नियमं मनसि कृत्वा शङ्करैरव्याख्याता अपि नारायणाश्रमि - शङ्करानन्दादिभिर्व्याख्याता अद्वैतमतप्रतिपादकास्सर्वा अप्युपनिषदः निर्दिष्टाः ।

उपनिषदां पौर्वापर्यम् -

सर्वासूपनिषत्सु का वा उपनिषत् प्राचीना ? का वा नवीना ? इति निश्चेतुं न शक्यते । यतोऽस्मिन् विषये मतभेदास्सप्रमाणाः दृश्यन्ते ।

१. प्रोफेसर - डायसनस्तु गद्यशैल्यां दृश्यमाना उपनिषद एव प्राचीना इति "फिलासफि आफ द उपनिषत्स् " इति ग्रन्थे अभिप्रैति ।

२. प्रो - रामचन्द्ररानडे तु "ए कंस्ट्रक्टिव सर्वे आफ़ उपनिषदिक फिलासफ़ि " नामके ग्रन्थे उपनिषदां पौर्वापर्यमेवमभिप्रैति - बृहदारण्यक - छान्दोग्यईश - केन - ऐतरेय - तैत्तरीय - कौषीतकी - कठ-मुण्डक - श्वेताश्वतर - प्रश्न - मैत्रायणि - माण्डूक्या इति उपनिषदां उत्तरोत्तरकालोत्पन्नतां प्रतिपादयन्ति। तस्य मतेन उपनिषदः पञ्चभिर्वर्गैः परिगणिताः - प्रथमवर्गे बृहदारण्यकछान्दोग्ये, द्वितीयवर्गे ईशकेनोपनिषदौ, तृतीयवर्गे ऐतरेयतैत्तरीयकौषीतक्यः, चतुर्थवर्गे कठमुण्डकश्वेताश्वतराः, पञ्चमरवर्गे प्रश्नमैत्रीमाण्ड्क्यानि चेति । एषु प्रथमवर्गः प्राचीनतमः, अन्तिमश्चार्वाचीन इति ।

३. बेलवलकर महाशयस्तु - एकस्यामेवोपनिषदि भिन्नकालिकानां रचनाविशेषाणां दर्शनात् , एकस्या एवोपनिषदः केचन भागाः प्राचीनाः, केचनार्वाचीना भवन्तीति वर्णयति ।

४. सर् - राधाकृष्णमहोदयास्तु वेदकालादारभ्य क्रिस्तोः पूर्वं (B.C) षष्ठशतकात्पूर्वावधिकः काल उपनिषदां काल इति निश्चिन्वन्ति।

प्राचीनतमासु उपनिषत्सु दार्शनिकविचारधारायाः प्राधान्यं, अनन्तरभाविनीषु धार्मिकविचारधारायाः भक्तिधारायाश्च प्रवेशस्सन्दृश्यते ।

उपनिषत्सु शाण्डिल्य - दध्यौच - सनत्कुमार - आरुणि - याज्ञवल्क्य - उद्दालकरैक्व - प्रतर्दन - अजातशत्रु - जनक - पिप्पलाद् - वरुण - गार्ही - मैत्रेयी - नचिकेतिःप्रभृतीनां बहूनां आचार्याणां महर्षीणाञ्च नाम दृश्यते । केचिदेतेषु सपत्नीकारसापत्याश्च दृश्यन्ते । श्वेतकेतोः पुत्रः आरुणिः, वरुणस्य पुत्रः भृगुः, याज्ञक्ल्क्यः द्विभार्य इत्यादि । औपनिषदास्सिद्धान्तास्सर्वेऽपि पतिपत्नींंसवादशैल्यां पितृपुत्रसंवादशैल्याञ्च प्रतिपादिता इति तु विशेषत अवधेयार्हः विषयः ।

उपनिषच्छब्दनिर्वचनम् -

कठोपनिषदां प्रस्तावनाभाष्याप्रामाण्यात् , मुण्डकोपनिषदां प्रस्तावनाभाष्यप्रामाण्यात् , केनोपनिषदि ( ४- ३२) "उपनिषदमब्रूत " इति वाक्यस्य भाष्यप्रामाण्यात् , छान्दोग्योपनिषत्स्थाष्टमाध्यायाष्टमखण्ड चतुर्थखण्डिकास्थभाष्यप्रामाण्यात् बृहदारण्यकोपनिषत्प्रस्तावनाभाष्यप्रामाण्याच्च संसारबीजविनाशिनी या विद्या सा उपनिषच्छब्देन मुख्यया वृत्या बोध्यत इति निश्चीयते । तादृशविद्याप्रतिपादकत्वात् लक्षणया ईशावास्यादयो ग्रन्था अप्युपनिषच्छब्देन व्यवह्रियन्ते ।

उपनिषदां सिद्धान्ताः -

प्रायः मुख्यासूपनिषत्सु ब्रह्मस्वरूपं, तत्प्रतिपत्तय उपासनाः, काश्चित् स्वतन्त्राः, काश्चित्कर्माङ्गत्वेन, आख्यायिकासहिताः प्रतिपादिताः । ब्रह्मविद्याप्राप्तेस्साधनानि ब्रह्मविद्याजिज्ञासूनां आवश्यकगुणविशेषाः, कर्ममार्गस्य जटिलत्वम् , ज्ञानमार्गस्य सुगमत्वम् , अनासक्तकर्मपरत्वं वैराग्यञ्चेत्येवमादीनि आत्मज्ञानाप्तेस्साधनानि, न तु तर्कविचारः युक्तिवादा वा इत्यादि प्रतिपादितम्।

उपनिषत्सु जाग्रत्तत्वानुशीलनपराः नैकविधाः कथाश्श्रूयन्ते । औपनिषदाः मननशीला मुनयः जगतः मूलतत्वानुसन्धाने बद्धश्रद्धाः दृश्यन्ते । प्रापञ्चिकानां नैकविधानां वस्तूनां विभिन्नतायां एकत्वसम्पादकं तत्वं किं स्यात् ? तादृशतत्वलाभोपायः क ? इति शङ्काकुलाः पञ्चभूतानुशीलनमार्गेण आत्मतत्वविचारपराः भूत्वा स्वस्मिन्नेव तादृशं तत्त्वं प्रत्यक्षीचक्रुः । एतादृशस्वानुभवशीलानां तेषां क्रान्तदर्शिन्याः दृष्टेः आन्तरबाह्यजगतोर्न कोऽपि भेदः विषयीबभूव। छान्दोग्योपनिषदीयया इन्द्रविरोचनकथया ( 8 - 7 - 12 ), आरुणिश्वेतकेतुसंवादरूपया न्यग्रोधकथया (6-12) च " तत्त्वमसि " " अयमात्मा ब्रह्म " इत्येष एव सिद्धान्तः प्रतिपादितः । एवं सप्रपञ्च- निष्प्रपञ्च ब्रह्मस्वरूपर्वर्णना, मनस्तत्वविवेचना, कर्म - सन्यास - मोक्षसिद्धिान्ताः, भारतीयविविधदर्शनमूलभूतास्सर्वेऽपि सिद्धान्ताः प्रतिपादिताः ।

एवञ्च भारतीयाध्यात्मिकविचारधाराया उपजीव्यत्वात् उपनिषदः प्रस्थानत्रये प्रथमगणनामर्हन्ति । यद्यप्युपनिषद अंसख्यास्तथापि या उपनिषद अद्वैतसिद्धान्तमूलभूताः, याश्च गौडपादशङ्करभगवत्पादादिभिरद्वैताचार्यैः व्याख्यातास्त एवात्र सव्याख्योपव्याख्या वर्णमालाक्रमेण निर्दिश्यन्ते ।।

उपनिषत्प्रस्थानम्

इतरे उपनिषदः

अथर्वशिखोपनिषत्
अथर्वशिर उपनिषदः
अमृतनादोपनिषत्
अमृतबिन्दूपनिषत्
आत्मप्रबोधोपनिषत्
आरुणिकोपनिषत्
कैवल्योपनिषत्
कौषीतक्युपनिषत्
क्षुरिकोपनिषत्
गोपालतापिन्युपनिषत्
जाबालोपनिषत्
नारायणोपनिषत्
नृसिम्हतापनीयोपनिषत्
ब्रह्मविद्योपनिषत्
ब्रह्मोपनिषत्
महोपनिषत्
रामतापिन्युपनिषत्
श्वेताश्वतरोपनिषत्
हंसोपनिषत्