काठकोपनिषत्

उपनिषत्प्रस्थानम्

नचिकेतोमृत्युंसवादरूपायामस्यामुपनिषदि प्रत्येकं वल्लित्रितययुते अध्यायद्वितये सर्वमेधाख्ये यज्ञे दत्तसर्वस्वदक्षिणस्य वास्रवसनाम्नो महर्षेः पुत्रेण नचिकेतोनाम्ना निजनिर्बन्धादेव पित्रा मृत्यवे प्रदत्तेन मृत्युलोकमधिगम्य त्रिस्रो रात्रीरुपोषितवता मृत्युप्रसादादेव निजपितुश्शान्तचित्तत्वं, नचिकेता इति स्वनामधेयोपेतस्याग्नेः ब्रह्मविद्याङ्गतया विज्ञानं सविस्तरं मृत्युनैवोपदिष्टं प्रत्यगात्मपरमात्मनोस्स्वरूपज्ञानं च इत्येतद्वरत्रितयं पुत्रपौत्रचिरायुस्सम्पत्यादिकं प्रत्याचक्षाणेन समधिगतमिति प्रतिपाद्यते । अस्य उपनिषदो रचनाकालः (500 - 400 BC) इति विमर्शकः । मुद्रिता चेयमुपनिषदानन्दाश्रममुद्रणालये । अस्या व्याख्याः -

1. शङ्कराचार्यकृतम् - कठोपनिषद्भाष्यम्

सव्याख्योऽयं ग्रन्थः आनन्दाश्रममुद्रणालये मुद्रितः ।

(क) अच्युतकृष्णानन्दकृता - भाष्यटीका

अमुद्रितेयं काठकशाङ्करभाष्यटीका महीशूरहस्तलिखितपुस्तकालये (1278 ग्र 22 प My GML) लभ्यते ।

अस्याः कर्ता रामानन्दप्रशिष्यस्स्वयम्प्रकाशशिष्य अद्वैतानन्दसरस्वत्याश्च शिष्यः तैत्तरीयव्याख्यावनमालाकारः सप्तदशाष्टादशशतकीय (1650 - 1750 A.D,) अच्युतकृष्णानन्द इति ज्ञायते ।

(ख) आनन्दगिरिकृता - भाष्यटीका ।

मुद्रितश्चायं ग्रन्थ आनन्दाश्रममुद्रणालये ।

(ग) गोपालबालयतिकृतम् - कठवल्लीभाष्यविवरणम् ।

मुद्रिता चेयं व्याख्या आनन्दाश्रममुद्रणालये ।।

अस्याः कर्ता बालगोपालयतिरित्यपरनामा जगन्नाथाश्रमिशिष्यः, नृसिम्हाश्रमिसतीर्थ्यः, स्वयम्प्रकाशगुरुः, मनीषापञ्चकव्याख्यामधुमञ्जरीकारः षोडशशतकीयः (1500 - 1600 A.D.) गोपालबालयतिरिति ज्ञायते ।।

(घ) शिवानन्दयतिकृता - कठभाष्यटिप्पणी

अमुद्रितोऽयं ग्रन्थ मद्रासराजकीयहस्तलिखितपुस्तकालये (R 3882 MGOML) लभ्यते । अस्य कर्ता रामनाथविदुष आचार्यः सप्तदश - अष्टादशशतकमध्यवर्ती (1650 - 1751 A.D.) शिवानन्द इति पूर्वमुपपादितम् ।

(ङ) श्रीधरशास्रिपाठककृता - भाष्यव्याख्या - बालबोधिनी

मुद्रिताचेयं व्याख्या पूनानगरे । अस्याः कर्ता त्र्यम्बकशास्त्रिपुत्रः डेक्कान संस्कृतकलाशालाप्रधानाध्यापकः विंशतिशतकीयः (1850 - 1920 A.D.) श्रीधरशास्त्रीति ज्ञायते ।।

2. अभिनवनारायणेन्द्रकृता - कठोपनिषद्व्याख्या

अमुद्रितोऽयं ग्रन्थ औधसूच्यां दृश्यते । अस्य कर्ता कैवल्येन्द्र ज्ञानेन्द्र योशिशष्य अग्निहोत्रभट्टसतीर्थ्यः षोडशशतकीयः (1550 - 1650 A.D.) अभिनवनारायणेन्द्र इति ज्ञायते ।

3. उपनिषद्ब्रह्मेन्द्रकृता - कठवल्लीव्याख्या

मुद्रिताचेय व्याख्या अडयारपुस्तकालये । अस्य कर्तारं उपनिषद्ब्रङ्मेन्द्रमधिकृत्य पूर्वमेवोपपादितम् ।।

4. दिगम्बरानुचरकृता - कठवल्लीव्याख्या - अर्थप्रकाशिका

मुद्रिता चेयंव्याख्या आनन्दाश्र मुदणालये । अस्याः कर्ता एकनाथसामयिकः महाराष्ट्रीयसाधुर्दिगम्बरानुचर इत्येव ज्ञायते ।

5. नारायणगजपतिराजकृता - कठोपनिषद्व्याख्या - द्विमतप्रकाशिका

अमुद्रितोऽयं ग्रन्थः शाङ्करभाष्यानुसारिणी व्याख्यां द्वयोर्मतयोरन्यतमाञ्च स्वीकरोति। ग्रन्थोऽयं बरोडासूच्यां (10058 BRD) दृश्यते । अस्य कर्ता नाराराववेङ्काम्बयोः पुत्रः जमदग्निगोत्रजः क्षत्रियः नारायणगजपतिराय इति परं ज्ञायते ।।

6. नारायणाश्रमिकृता - कठवल्लीदीपिका ।

मुद्रितश्चायं ग्रन्थ आनन्दाश्रममुद्रणालये ।

7. भास्करानन्दसरस्वतीकृता - कठवल्लीव्याख्या

मुद्रितश्चायं ग्रन्थः भारतीजीवनमुद्रणाले वाराणस्याम् । भास्करानन्दश्च पूर्वमुपपादितः ।।

8. शङ्करानन्दकृता - कठवल्लीदीपिका

मुद्रितश्चायं ग्रन्थः आनन्दाश्रममुद्रणालये । शङ्करानन्दश्च उपपादितपूर्वः ।

उपनिषत्प्रस्थानम्

इतरे उपनिषदः

अथर्वशिखोपनिषत्
अथर्वशिर उपनिषदः
अमृतनादोपनिषत्
अमृतबिन्दूपनिषत्
आत्मप्रबोधोपनिषत्
आरुणिकोपनिषत्
कैवल्योपनिषत्
कौषीतक्युपनिषत्
क्षुरिकोपनिषत्
गोपालतापिन्युपनिषत्
जाबालोपनिषत्
नारायणोपनिषत्
नृसिम्हतापनीयोपनिषत्
ब्रह्मविद्योपनिषत्
ब्रह्मोपनिषत्
महोपनिषत्
रामतापिन्युपनिषत्
श्वेताश्वतरोपनिषत्
हंसोपनिषत्