छान्दोग्योपनिषत्

उपनिषत्प्रस्थानम्

सामशाखीयायामस्यां छान्दोग्योपनिषदि प्रथमप्रपाठके त्रयोपदशभिः खण्डैः उद्गीथस्यानेकधा उपासनानि. स्तोभाक्षरोपासनम् , तत्फलम् , सामादिज्ञानं तत्फलञ्च प्रतिपाद्यते । द्वितीयप्रपाठके चतुर्विंशतिखण्डैः - साम्नः पञ्चधा सप्तधा चोपासनम् , तत्फलञ्च कथ्यते । तृतीयप्रपाठके एकोनविंशतिखण्डैः आदित्योपासनम् , मधुविद्या, गायत्रीविद्या, शाण्डिल्यविद्या, तासां फलानि चाभिधीयन्ते । चतुर्थप्रपाठके सप्तदशखण्डैः विद्यादानग्रहणविचारः उपकोसलविचारः , ब्रह्मविदो गतिविचारश्च कृतः । पञ्चमप्रपाठके त्रयोविंशतिख्णडैः - प्राणस्य मुख्यत्वविचारः, पञ्चाग्निविद्या, सगुणब्रह्मविद्याफलं आख्यायिकामुखेन वैराग्योदयाय संसारगतिः, वैश्वानरविद्या चाभिधीयते । षष्ठप्रपाठके षो़डशभिः खण्डैराख्यायिकामुखेन ब्रह्मविद्या विचारिता । अनेकधा आत्मतत्वविचार उपदेशश्च कृतः। सप्तमप्रपाठके पञ्चदशभिः खण्डैः भूमविद्या प्रपञ्च्यते । अष्टमप्रपाठके पञ्चदशखण्डैर्दहरविद्या तत्फलं, प्रत्यगात्मविद्या तत्फलं च प्रकाश्यते । अस्या रचनाकालः (700 BC) इति विमर्शकाः । सव्याख्येयमुपनिषन्मुद्रिता आनन्दाश्रममुद्रणालये । अस्या व्याख्या :-

1. द्रविडाचार्यकृतम् - छान्दोग्यभाष्यम्

2. ब्रह्मनन्दिकृतम् - छान्दोग्यवाक्यम्

इमौ द्वावपि ग्रन्थौ नोपलभ्येते, तथापि तत्र विभिन्नग्रन्थेषु उद्धरणात् तयोर्ग्रन्थयोस्सत्ता ऊह्यते । एतावधिकृत्य विस्तरेण प्रतिपादितं अद्वैताचार्यप्रकरणे ।

3. शङ्कराचार्यकृतम् - छान्दोग्यभाष्यम् (ASS 14)

(क) अभिनवनारायणेन्द्रकृता - भाष्यदीका

अमुद्रितोऽयं ग्रन्थ मद्रासराजकीयहस्तलिखितपुस्तकालये (R 1662 MG OML) अडयारपुस्तकालये च लभ्यते ।।

(ख) आनन्दगिरिकृता - भाष्यव्याख्या (ASS 14)

4. उपनिषद्ब्रह्मेन्द्रकृतम् - छान्दोग्यऋजुविवरणम् । अडयारपुस्तकालये मुद्रितोऽयं ग्रन्थः ।

5. त्यागराजशास्त्रिकृतः- सद्विद्याविलासः सव्याख्यः

(राजुशास्त्रिकृत ) (रसानुभूतिरिति नामान्तरं व्याख्यायाः)

छान्दोग्यषष्ठाध्यायसंग्रहात्मकः पद्यात्मकश्चायं ग्रन्थः भाष्यतद्व्याख्यानानुसारं विस्पष्टार्थप्रकाशकः चिदम्बरनगरे ग्रन्थाक्षरेषु मुद्रितः ।

अस्य कर्ता आधुनिकोऽयं प्रकाण्डविद्वान् न्यायेन्दुशेस्वरकर्ता मन्नार्गुडि राजुशास्रीति विख्यातः, त्यागराजपौत्रः. अप्पादीक्षितपुत्रः, भारद्वाजगोत्रजः, यज्ञस्वामिदीक्षितपिता, नारायणसरस्वती - रघुनाथशास्रि - गोपालशास्रिशिष्यः एकोनविंशतिशतकीयः (1815 - 1904 A.D.) त्यागराजदीक्षितः । अदसीया अन्ये ग्रन्था अन्यत्र प्रतिपादिताः ।।

6. नित्यानन्दाश्रमिकृता - मिताक्षरा

मुद्रिता चेयं मिताक्षरानाम्नी छान्दोग्यव्याख्या बम्बर्इसंस्कृतमुद्रणालये । क्वचिदादर्शपुस्तकेषु बरो़डा - अडयारपुस्तकालयस्थेषु ग्रन्थस्यास्य "अर्थप्रकाशिका" इत्यपि नामान्तरं दृश्यते ।

अस्याः कर्ता पुरुषोत्तमाश्रमशिष्यः, नित्यानन्दाश्रमीति ज्ञायते । एनमधिकृत्य नाधिकं ज्ञातुं पार्यते । मुद्रितपुस्तकात् कालनिर्णययोग्यानि प्रमाणानि नेपलभ्यन्ते । परं तु उज्जयिनीपुस्तकालयस्थे 1373 संख्याके आदर्शपुस्तके 1746 संवत् इति दृश्यते । यदि स लेखककालस्स्यात् तर्हि सप्तदशशतकात् (1690 AD) पूर्वतन इति सिध्यति । यदि वा स एव ग्रन्थकर्तुः कालस्स्यात्तर्हि सुवर्णे सौगन्ध्यायितम् ।

7. शङ्करानन्दकृता - छान्दोग्यदीपिका

मुद्रिता चेयमानन्दाश्रममुद्रणालये ।।

उपनिषत्प्रस्थानम्

इतरे उपनिषदः

अथर्वशिखोपनिषत्
अथर्वशिर उपनिषदः
अमृतनादोपनिषत्
अमृतबिन्दूपनिषत्
आत्मप्रबोधोपनिषत्
आरुणिकोपनिषत्
कैवल्योपनिषत्
कौषीतक्युपनिषत्
क्षुरिकोपनिषत्
गोपालतापिन्युपनिषत्
जाबालोपनिषत्
नारायणोपनिषत्
नृसिम्हतापनीयोपनिषत्
ब्रह्मविद्योपनिषत्
ब्रह्मोपनिषत्
महोपनिषत्
रामतापिन्युपनिषत्
श्वेताश्वतरोपनिषत्
हंसोपनिषत्