इतरे गीताः

गीताप्रस्थानम्

अगस्त्यगीता

बिब्लियोथिका - इण्डिकाग्रन्थमालायां कल्कत्तानगरे मुद्रितस्य वराहपुराणस्य एकपञ्चाशत्तमादध्यायादारभ्य त्रिपञ्चाशत्तमाध्यायपर्यन्तेयं गीता (51 - 53) अगस्त्यगीतेति कथ्यते ।

भद्राश्व - अगस्त्यसंवादरूपायां अस्यां गीतायां अहङ्कार - अज्ञान - विज्ञानेन्द्रियाणामुत्पत्तिः, जगत्सृष्टिः, ज्ञानस्वरूपमित्येते विषयाः पशुपालकथाव्याजेन निरूपिताः ।।

अनुगीता

महाभारतान्तर्गतेयं गीता। महाभारतस्याश्वमेधिकपर्वणि षोडशाध्यायादारभ्या प्रवृत्तः कृष्णार्जुनसंवादः अनुगीताशब्देन व्यवहृतः । पूर्वोपदिष्टगीतार्थस्य संग्रामव्यग्रस्य अत एव विस्मृतगीतार्थस्यार्जुनस्य प्रार्थनया भगवान् भगवद्गीतार्थं सङूगृह्णाति । ज्ञानस्याविनाशित्वं, ज्ञानादेव मुक्तिरिति च प्रतिपादयन्तीयं गीता मुद्रिता ।। (S.B.E.8)

1. गौडपादमुनिकृतम् - अनुगीताभाष्यम् ।

अमुद्रितोऽयं ग्रन्थः नासिकहस्तलिखितपुस्तकालयसूच्यां (XXVI 35) दृश्यते । गौडपादमुनिश्च माण्डूक्यप्रकरणे उपपदितः ।

अवधूतगीता

दत्तगीता, जीवन्मुक्तगीता इत्यादिनाम्ना प्रसिद्धेयं गीता 'आष्टेकर कम्पेनि ' पूनानगरे मुद्रिता । गोरक्षदत्तात्रेयसंवादरूपेऽस्मिन् ग्रन्थे जीवन्मुक्तस्य स्वरूपं, मोक्षस्वरूपं आत्मज्ञानविचारश्च सम्यगुपपादिताः । अस्य कर्ता यदि महाभारतादिषु प्रसिद्धः दत्तात्रेयस्स्यात्तर्हि अत्रेरनसूयायाश्च पुत्र, निमेः पिता, श्रीमतः पितामहः इति महाभारतानुशासनपर्व - सभापर्वप्रमाणात् निर्णेतुं शक्यते ।

1. परमानन्दतीर्थकृता - अवधूतगीताटीका ।

अमुद्रितोऽयं ग्रन्थ मद्रासराजकीयहस्तलिखितपुस्तकालये (D. 17476 MGOML) तिरुवनन्तपुरपुस्तकालये महीशूरपुस्तकालये च लभ्यते । अस्याः कर्ता परमानन्दतीर्थः विद्यातीर्थप्रशिष्यः भारतीतीर्थशिष्यः चतुर्दशशतकीय (1300 - 1400 A.D.) इति निश्चीयते ।

2. शङ्कराचार्यकृताः - अवधूतगीतासारः ।

अमुद्रितोऽयं ग्रन्थः (D. 18884 MGOML) लभ्यते ।

3. अज्ञातकर्तृका - अवधूतगीताव्याख्या ।

अमुद्रितोऽयं ग्रन्थः (R. 5498 MGOML) लभ्यते ।।

अष्टावक्रगीता

अष्टावक्रीयं, अष्टावक्रसूक्तं, अवधूतानुभूतिरित्यादिनामभिः प्रसिद्धेयं गीता एकविशतिभिरध्यायैः पूर्णा अष्टावक्रजनकसंवादरूपेण अद्वैतवेदान्तसिद्धान्तान् ब्रह्मणोऽद्वितीयत्वं चिन्मयत्वञ्च प्रतिपादयति । मुद्रिता चेयं गीता आष्टेकर कम्पेनिपूनानगरे ।

1. पूर्णानन्दकृता - अष्टावक्रगीताव्याख्या ।

ग्रन्थोऽयं मध्यप्रान्तीय वरार्ग्रन्थसूच्यां (327 CCPB) दृश्यते । यद्ययं पूर्णानन्दः ब्रह्मविद्याभरणकाराणां अद्वैतानन्देन्द्राणां शिष्यः, रामानन्दस्य प्रशिष्यः, अच्युतकृष्णानन्दसतीर्थ्यः, भाष्यरत्नप्रभाव्याख्यापूर्णानन्दीयकर्ता स्यात् तर्हि अस्य कालः (1650 - 1750 A.D) सप्तदशशतकीय इति निर्णेतुं शक्यते ।।

2. भासुरानन्दकृता - अष्टावक्रगीताव्याख्या ।

ग्रन्थोऽयं मध्यप्रान्तीयबरार्ग्रन्थसूच्यां दृश्यते । भासुरानन्दोऽयं काशीवासीसन्नपि चोलदेशानागतः कावेरीतीरवासी सञ्जातः । अस्य शिष्य उमानन्दाख्यः । उमानन्देन नित्योत्सव इति ग्रन्थ कृतः यश्च मद्रासनगरे (R. 2462 MGOML) लभ्यते । भासुरानन्देन रत्नावलीनामा ग्रन्थेऽपि कृत इति ज्ञायते ।।

3. मुकुन्दमुनिकृता - अष्टावक्रगीताव्याख्या ।

ग्रन्थोऽयमपि मध्यप्रान्तीयवरार्ग्रन्थसूच्यां दृश्यते । अस्य कर्ता मुकुन्दमुनिः हरिनाथप्रशिष्यः रामनाथशिष्यः ब्रह्मामृतवर्षिणीकर्तू रामकिङ्करधर्मस्य गुरुः, महाराष्टदेशीयः, मुकुन्दानन्दमुक्तिनाथमुकुन्दराजापराभिधानस्सुज्ञानविंशतिकाराद्भिन्नः सप्तदशशतकीय (1550 - 1650 A.D.) इति निश्चीयते ।।

4. विश्वेश्वरपण्डितकृता - अष्टावक्रदीपिका ।

अवधूतानुभूतिदीपिका, अध्यात्मदीपिका, अष्टावक्रदीपिका इत्यपरनामायं ग्रन्थ आष्टेकरकम्पेनि पूनानगरे मुद्रितः । अस्य कर्ता विश्वेश्वरपण्डितः माध्वप्रज्ञशिष्य इति परं ज्ञायते ।।

ईश्वरगीता

कूर्मपुराणान्तर्गतेयं ईश्वरगीता । द्वादशभिरध्यायैः पूर्णेयं गीता ऋषिव्याससंवादमुखेन प्रवृत्ता बिब्लियोथिकासंस्कृतग्रन्थमालायां मुद्रिता ।

1. यज्ञेश्वरसूरिकृता - ईश्वरगीताव्याख्या ।

ईश्वरगींताभाष्यमित्यपरनामायं ग्रन्थ अमुद्रितस्प्तरस्वतीमहालये (8997 DC. TSML) लभ्यते । अस्य कर्ता काश्यपगोत्रजः बहवृचशाखाध्यायी चर्कूरिवंशजः कोण्डुभट्ट - गङ्गाम्बिकयोः पुत्रः, तिरुमलैदीक्षितकनीयान् भ्राता यज्ञेश्वरकृष्णाश्रमयोः शिष्यः चोलदेशीयः, शाहेन्द्रग्रामवासी नृसिम्हाश्रमिण अर्वाचीनस्सप्तदशशतकीयः (1600 - 1700 A.D) शास्त्रदीपिकाव्याख्याप्रभामण्डलकर्ता यज्ञेश्वरदीक्षित इति पञ्चपादिकाविवरणोज्जीविनी (R. 592 MGOML) ईश्वरगीताव्याख्यानाच्च ज्ञायते ।।

उत्तरगीता

कृष्णार्जुनसंवादात्मकोऽयं ग्रन्थः प्रणवोपासनादीनद्वैतवेदान्तप्रकरणग्रन्थप्रतिपादितान् विषयान् त्रिभिरध्यायैः प्रतिपादयन् महाभारतान्तर्गतः वाणीविलासमुद्रणालये कृलकत्तायां बाम्बे नगर्याञ्च मुद्रितः ।

1. काण्डद्वयातीतयोगिकृता -उत्तरगीताव्याख्या

अमुद्रितोऽयं ग्रन्थस्सरस्वतीमहालयपुस्तकालये (7568 DC TSML) लभ्यते । अस्य कर्ता हारीतगोत्रजः अतिवर्णाश्रमी सन्यासात् पूर्वं काण्डयार्यनीलाम्बयोः पुत्रः सामराजतीर्थशिष्यः काण्डद्वयातीतयोगीति ज्ञायते । यद्ययं सामराजः रतिकल्लोलिनीश्रीदामचरितशृङ्गारामृतलहर्यादिकर्ता नरहरिदीक्षितपुत्रः आनन्दरायकालिकः मधुरावासी सामराजस्स्यात्तर्हि काण्डद्वयातीतयोगिनः कालः (1775 सं. 1719 A. D.) इति निर्णेतुं शक्यते ।

2. गौडपादाचार्यकृता उत्तरगीतादीपिका

मुद्रितोऽयं ग्रन्थः वाणीविलासमुद्रणालये । अस्य कर्ता गौडपादः किं माण्डूक्यकारिकाकर्ता ? उतान्य इत्यत्र न निश्चयः ।।

3. परमानन्दतीर्थकृता - उत्तरगीताटीका

ग्रन्थोऽयं महीशूरपुस्तकसूच्यां दृश्यते । परमानन्दतीर्थोऽयं विद्यातीर्थप्रशिष्यः भारतीतीर्थशिष्यश्चतुर्दशशतकीय (1300 - 1400 A.D.) इति ज्ञायते ।।

4. अज्ञातकर्तृकः - उत्तरगीतासारः -

गीतासार इत्यपरनामायं ग्रन्थः महीशूरसूच्यां (Vol. II Page 22) दृश्यते । आनन्दगिरिणा कृता च काचन व्याख्या मुद्रिता विद्यते ।।

ऋभुगीता

शिवरहस्यान्तर्गतेयं गीता सप्तर्विशतिभिरध्यायैः पूर्णा सरस्वतीमहालये अडयारपुस्तकालये महीशूरपुस्तकसूच्याञ्च दृश्यते ।।

कपिलगीता

देवहूतिभगवत्संवादरूपेयं गीता आष्टेकरकम्पनीमुद्रितगीतासंग्रहान्तर्गता । पद्मपुराणान्तर्गता अन्या काचन शिवपार्वतीसंवादात्मिका कपिलगीतापि विद्यते ।

गणेशगीता

गजाननवरेण्यसंवादमुखेन प्रवृत्तेयं गीता भगवद्गीतां सर्वात्मनानुकरोति । मुद्रिता चेयमुपनिषदानन्दाश्रममुद्रणालये (ASS 52)

1. नीलकण्ठतीर्थकृता - गणपतिभावदीपिका

गणेशगीताव्याख्यात्मकोऽयं ग्रन्थस्संक्षेपशारीरकं वार्तिकञ्चोद्धरन् आनन्दाश्रमे (ASS 52) मुद्रितः । अस्य कर्ता चतुर्धरवेशावतंसः काशीवासी गोविन्दसूरिपुत्रः नीलकण्ठतीर्थः षोडशशतकान्तिमात् समयादारब्धे सप्तदशशतकान्ते काले (1750 सं 1696 A.D.) आसीदिति गगनशरगिरीन्दुमिते विक्रमसंवत्सरे ग्रन्थञ्चकारेति च ज्ञायते ।।

जीवन्मुक्तिगीता

उपेन्द्रनाथमुखोपाध्यायेन कल्कत्तायां मुद्रितेयं गीता कृष्णार्जुसंवादमुखेन जीवन्मुक्तस्वरूपं वर्णयति ।

ज्ञानगीता

अमुद्रितोऽयं ग्रन्थ नासिकसूच्यां (XXIV 22) दृश्यते । अद्वैतसिद्धान्तप्रतिपादिकेयं गीता इति (J.O.R.Vol. 12 Page 114) जर्नल आफल ओरियण्टल पत्रिकाया द्वादशतमात् भागात् ज्ञायते ।।

देवीगीता

योगत्रयप्रतिपादिकेयं गीता देवीभागवतसप्तमस्कन्धान्तर्गता । भगवती गीता इत्यपि नामान्तरमस्या श्रूयते । हिमवद्देवीसंवादमुखेन प्रवृत्तेयं गीता आष्टेकरकम्पनि मुद्रितगीतासंग्रहे दृश्यते ।

बोधानन्दगीता

ईशादिबृहदारण्यकान्तानां दशोपनिषदां भाष्यानुसारिणमर्थं सङ्गगृह्णन्तीयं गीता द्वादशमिः परिच्छेदैः पूर्णाऽमुद्रिता च तिरुवनन्तपुरं पुस्तकालये (316 DCTCL) लभ्यते ।

अस्य कर्ता ब्रह्मानन्दयतिशिष्यः गुरुमूर्तिगुरुः पञ्चनदक्षेत्रवासी (1700 - 1800 A.D.) अष्टादशशतकीयः कैवल्यदीपिकाकारः (R. 2934 MGOML) बोधानन्द इति ज्ञायते ।।

ब्रह्मगीता I

योगवासिष्ठोत्तरार्घगतनिर्वाणप्रकरणान्तर्गता वसिष्ठरामसंवादमुखेन प्रवृत्तेयं गीता आष्टेकरकम्पनिगीतासंग्रहे मुद्रिता ।।

ब्रह्मगीता II

स्कान्दपुराणान्तर्गतसूतसंहितान्तर्गतेयं गीता गीतासंग्रहे मुद्रिता । शिवभक्ति अद्वैतसिद्धान्तप्रदर्शनप्रधानेयं गीता दशोपनिषदामर्थञ्च प्रतिपादयति ।

1. कृष्णानन्दकृता - चित्प्रकाशिनी

ब्रह्मगीतव्याख्यापरनामायं ग्रन्थः नासिकसूच्यां 136 दृश्यते । अस्य कर्ता कैवल्यानन्दकृष्णानन्दयोश्शिष्यः वाराणसीवासी एकोनविंशतिशतकीयः (1800 - 1900 A.D.) कृष्णानन्दसरस्वतीति ज्ञायते ।।

2. माधवाचार्यकृता - तात्पर्यदीपिका

ब्रह्मगीताव्याख्यात्मकोऽयं र्ग्रन्थः मद्रासनगरे बालमनोरमामुद्रणालये मुद्रितः । अस्य कर्ता माधवाचार्यः माधवमन्त्रीत्यपरनामा आङ्गिरसगोत्रजः. चावुण्ड्यात् माचाम्बिकायामुत्पन्नः काशीविलासक्रियाशक्तिशिष्यः परमशिवभक्तोऽपि अद्वैत वेदान्ततत्ववेत्ता प्रचण्डयोद्धा शत्रुमानमर्दनकारी शौर्यसम्पन्नः, उपनिषन्मार्गप्रवर्तकाचार्यविरुदभूषितः, चतुर्दशशतकीयः (1340 - 1391 A.D.) इति ज्ञायते । माधवमन्त्री अयं भारद्वाजगोत्रजात् , मायणश्रीमत्योः पुत्रात् , सायणभोगनाथयोः भ्रातुः, विद्यातीर्थभारतीतीर्थश्रीकण्ठशिष्यात् , पराशरमाधवपञ्चदश्यादिकर्तुः विद्यारण्यापराभिधानात् माधवाचार्यात् भिन्न इति यफिग्राफिका कर्नाटिका (Vol. 7 ) शिकारपुर 281, एवं - यफिग्राफिकाकर्नाटिका (Vol. 8) प्रमाणाच्च, ज्ञायते ।

3. वेङ्कटेशशास्त्रिकृता - तात्पर्यबोधिनी ।

अमुद्रितोऽयं ब्रह्मगीताव्याख्याग्रन्थः मद्रासराजकीयपुस्तकालये (R. 4065 MGOML) लभ्यते । अस्य कर्ता आत्रेयगोत्रजः कोयम्पुरि (कोयम्पुत्तूर ?) वासी सर्वदेवशिष्यः अय्यात्तुरेशास्त्रीत्यपरनामा सामिशास्त्रिसामयिकः एकोनविं शतिशतकीयः (1790 - 1850 A.D.) वेङ्कटेश्वरशास्त्रीति ज्ञायते ।।

रामगीता

तैत्तरीयोपनिषदः, वाजसेनेयश्रुतिञ्च प्रमाणयन्तीयं रामगीता तत्वसारायणान्तर्गता आत्मविद्याग्रन्थमालायां (1) आष्टेकर कम्पनिमुद्रितगीतासंग्रहे च मुद्रिता । रामलक्ष्मणसंवादशैल्या प्रवृत्तोऽयं ग्रन्थः ज्ञानादेव मोक्ष अज्ञाननिवृत्तिश्चेति प्रतिपादयति ।

रुद्रगीता

बृहद्ब्रह्मसंहितान्तर्गतेयं गीता रुद्रभद्रवाहुसंवादमुखेन प्रवृत्ता अद्वैतवेदान्तविषयिणी आनन्दाश्रममदितायां बृहद्ब्रह्मसंहितायां द्रष्टव्या ।

वासिष्ठगीता

निर्णयसागरमुद्रणालयमुद्रितयोगवासिष्ठोत्तरार्घगतनिर्वाणप्रकरणान्तर्गता आत्मविश्रान्तिस्वभावविश्रान्तिविषणीयं वासिष्ठगीतेति ज्ञायते ।।

शिवगीता

षोडशभिरध्यायैः पूर्णेयं गीता अगस्त्योपदेशमुखेन प्रवृत्ता आष्टेकरकम्पनीमुद्रणालये मुद्रिता ।। अस्या व्याख्याः -

1. परमशिवेन्द्रसरस्वतीकृता - शिवगीतातात्पर्यप्रकाशिका ।

मुद्रितोऽयं ग्रन्थः वाणीविलासमुद्रणालये अस्य कर्ता परमशिवेन्द्रः ज्ञानेन्द्रसरस्वतीप्रशिष्यः अभिनवनारायणेन्द्रशिष्यः, सदाशिवब्रह्मेन्द्रगुरुः सप्तदशशतकीय इति (1600 - 1700 A.D.) इति ज्ञायते ।।

2. ब्रह्मानन्दसरस्वतीकृता शिवगीताव्याख्या ।

अमुद्रितोऽयं ग्रन्थः मद्रासराजकीयपुस्तकालये (R. 926 A. MGOML) लभ्यते । अस्याः कर्ता ब्रह्मानन्दस्समराज सरस्वत्याः सदाशिवतीर्थस्य च शिष्य इति परं ज्ञायते ।।

3. लक्ष्मीनरहरिसूनुकृता - बालानन्दिनी ।

शिवगीताव्याख्यात्मकोऽयममुद्रितग्रन्थः सरस्वतीमहालये (9022 DC.TSML) दृश्यते । अस्य कर्ता भट्टोजीदीक्षितादर्वाचीन इति परं ज्ञायते ।।

4. शङ्करानन्दकृता - शिवगीताव्याख्या ।

अमुद्रितोऽयं ग्रन्थः अडयारपुस्तकालये (9 B 42 क 3 AL) लभ्यते । अस्य कर्ता शङ्करानन्दः भगवद्गीताव्याख्यावसरे प्रतिपादितः ।।

शिवरामगीता

सुखोदयापरनामकाद्वैतसुधारसान्तर्गतेयं गीताऽमुद्रिता मद्रासराजकीयपुस्तकालये (R. 140 MGOML) अडयारपुस्तकालये (24 F आ 15 AL) महीशूरसूच्याञ्च दृश्यते शिवरामसंवादसरण्यां प्रवृत्तोऽयं ग्रन्थः योग - अद्वैतसिद्धान्तान् प्रतिपादयति ।।

श्रुतिगीता

भागवतदशमस्कन्धान्तर्गतेयं गीता ब्रह्मस्तुतिरूपा ।

1. शङ्करानन्दकृता - श्रुतिगीताव्याख्या ।

अमुद्रितोऽयं ग्रन्थः अडयारपुस्तकालये (20 E. 25 ग्र 151 AL) लभ्यते । शङ्करानन्दः उपपादितपूर्वः ।

1. श्रीधरस्वामिकृता - श्रुतिगीताव्याख्या ।

2. अज्ञातकर्तृकः - भावबोधः ।

श्रुतिगीताव्याख्याभूतोऽयं ग्रन्थ अडयारपुस्तकालये (19 DI 100 AL), सरस्वतीमहालये च (8990 DC. TSML) लभ्यते ।।

सिद्धगीता

योगवासिष्ठोपशमप्रकरणान्तर्गतेयं गीता निर्णयसागरमुद्रणालये मुद्रिता ।

सिद्धान्तगीता

अथर्वणवेदरहस्यान्तर्गतेयं गीताऽमुद्रिता अडयारपुस्तकालये (9 H.24, 13 AL), सरस्वतीमहालये (9025 DC. TSML) लभ्यते ।।

सूतगीता

सूतसंहितान्तर्गतेयं गीता आनन्दाश्रममुद्रणालये (ASS 25) बालमनोरमामुद्रणालये च मुद्रिता ।

1. माधवमन्त्रिकृता - तात्पर्यदीपिका ।

मुद्रिताचेयं व्याख्या पूर्वोक्तस्थले । ग्रन्थकारोऽयं काशीविलासक्रियाशक्तिशिष्यः प्रसिद्धिविद्यारण्यापराभिधमाधवाचार्याद्भिन्न उपनिषन्मार्गप्रवर्तकाचार्यबिरुदभागिति ब्रह्मगीताव्याख्याप्रकरण उपपादितम् ।

सूर्यगीता

वासिष्ठतत्वसारायणान्तर्गतेयं गीता सूर्यारुणसंवादमुखेन प्रवृत्ता अद्वैतवेदान्तसिद्धान्तप्रतिपादिका आष्टेकरकम्पनिमुद्रितगीतासंग्रहे प्रकाशिता ।

हंसगीता

कृष्णोद्धवसंवादमुखेन प्रवृत्तेयं गीता आष्टेकरगीतासंग्रहे प्रकाशिता ।

गीताप्रस्थानम्

इतरे गीताः

अगस्त्यगीता
अनुगीता
अवधूतगीता
अष्टावक्रगीता
ईश्वरगीता
उत्तरगीता
ऋभुगीता
कपिलगीता
गणेशगीता
जीवन्मुक्तिगीता
ज्ञानगीता
देवीगीता
बोधानन्दगीता
ब्रह्मगीता I
ब्रह्मगीता II
रामगीता
रुद्रगीता
वासिष्ठगीता
शिवगीता
शिवरामगीता
श्रुतिगीता
सिद्धगीता
सिद्धान्तगीता
सूतगीता
सूर्यगीता
हंसगीता