भगवद्गीता

गीताप्रस्थानम्

अष्टादशभिरध्यायैः सप्तशतश्लोकैश्च पूर्णेयं गीता निःश्रेयसप्राप्त्युपायान् स्वभावमधुरैः पदविन्यासैः प्रतिपायति ।

"श्लोकैकं धृराष्टस्य नव दुर्योधनस्तथा ।
दात्रिंशत्सञ्जयप्रोक्तं वेदाष्टौ अर्जुनस्य च ।।
तत्वाववोधो वेदाव्धिः पञ्च केशवनिर्मितम् ।
एवं गीताप्रमाणञ्च श्लोकास्सप्तशतानि च ।। "

इत्ययं श्लोकः गीताविषये प्रसिद्धः ।। भगवद्गीता विभिन्नदार्शनिकवादेषु निर्लिप्ता आध्यात्मिकतत्वनिरूपणपरवैदिक धर्ममात्रानुसारिणी राजते । गीतायां आत्मापरोक्षानुभूतिप्रतिपादिकानां उपनिषदां अद्वैतसिद्धान्तः, प्रकृतिपुरुषविवेकज्ञानान्मोक्ष इति प्रतिपादिका सांख्याप्रक्रिया, कर्मानुष्ठानजन्यस्वर्गादिफलदायिकर्ममीमांसासिद्धान्तः, अष्टाङ्गसाधनेन प्रकृतिबन्धनाश्च पाञ्चरात्रसिद्धान्तश्च यत्र तत्र प्रतिपादितः । अत एव गीताया आशयः कुत्रेति न निर्णेतुं शक्यत इति केचिद्वदन्ति । ततदाचार्यैः गीता प्रमाणीक्रियते । शङ्करभगवत्पादैश्च गीताप्रस्तावनाभाष्ये " तदिदं गीताशास्त्रं समस्तवेदार्थसारसंग्रहभूतं दुर्विज्ञेयार्थं " इत्युच्यते । शाङ्करभाष्यानुसारं उपक्रमोपसंहारप्रमाणात् भगवद्गीतायाः ज्ञानयोगे एव तात्पर्यं अन्ये तु तदङ्गा एवेति प्रतिपाद्यते ।

भगवद्गीतायां दृश्यमाणः " पत्रं पुष्पं फलं तोयमित्यादिः श्लोकः (9-26) बोधायनगृह्यसूत्रेषु दृश्यते । बोधायनगृह्यसूत्राणां रचनाकालस्तु (400 BC) इति प्रसिद्धम् । तस्मात् तत्पूर्वतनेयं गीतेति ज्ञायते । बेलबलकरमहाशयः, दासगुप्तमहाशयाश्च बौद्धधर्मग्रन्थात् प्राचीनेयं भगवद्गीतेति वदन्ति । महाभारतादपि प्राचीनेयं भगवद्गीता । भगवद्गीतायाः प्रशस्त्यं सार्वजनीनत्वञ्च दृष्ट्वा महाभारते संयोजितेति तत्वविदः । व्याख्योपेतेयं गीता निर्णयसागर मुद्रणालयेऽन्यत्र बहुषु स्थलेषु मुद्रिता च । अस्य भाष्यादिकं एतत्सम्बद्धाः ग्रन्थाश्च-"

1. शङ्कराचार्यकृतम् - भगवद्गीताभाष्यम् ।

मुद्रितश्चायं ग्रन्थ आनन्दाश्रमे, वाणीविलासमुद्रणालये, निर्णयसागरमुद्रणालये च ।

(A) अनुभूतिस्वरूपाचार्यकृतम् - गीताभाष्यटिप्पणम् ।

अमुद्रितोऽयं ग्रन्थ अडायारपुस्तकालये (33 AL), तिरुवनन्तपुरपुस्तकालये (231 DC. TCL ) च लभ्यते । अस्य कर्ताऽनुभूतिस्वरूपाचार्यः द्वादशशकीय इत्यादि उपनिषत्प्रस्थाने सूत्रप्रस्थाने चोपपादितम् ।

(B) आनन्दगिरिकृतम् - गीताभाष्यविवेचनम् ।

भगवद्गीताभाष्यव्याख्यात्मकोऽयं ग्रन्थ आनन्दाश्रममुद्रणालये (ASS 34) मुद्रितः । आनन्दगिरिरयं शुद्धानन्दानुभूतिस्वरूपाचार्यशिष्यः त्रयोदशशतकीय इति सूत्रप्रस्थाने उपनिषत्प्रस्थानेऽद्वैताचार्यप्रकरणे चोपपादितम् ।।

(C) केशवसाक्षिभगवत्पादकृतः - गीताभाष्यसंक्षेपः ।

अमुद्रितोऽयं पूर्णग्रन्थः मद्रासराजकीयपुस्तकालये (D. 2058 MGOML) लभ्यते । केशवसाक्षिमगवतानेन विद्यारण्यः नृसिम्हभारती च ग्रन्थे निर्दिष्टौ । तस्मात्तयोरनन्तरवत्रलिक इति परं निर्णीयते ।।

(D) रामानन्दसरस्वतीकृता - गीताभाष्यव्याख्या - गीताशयः

शाङ्करभाष्यव्याख्यात्मकोऽयं ग्रन्थः दासगुप्तमहाशयेन (HIP. Vol. II Page 39 ) निर्दिष्टः । बरोडासूच्यां (6939 D. DC. BRD.) दृश्यते च । स्वयम्प्रकाशसरस्वती राममद्रानन्दसरस्वतीप्रशिष्यः, राघवानन्दशिष्यश्चायं रामानन्दस्स्वग्रन्थेषु लघुचन्द्रिकाकारं ब्रह्मानन्दसरस्वती निर्दिशन् सप्तदशशतकापरार्धादारब्धकालवासीति निश्चीयते । अनेन पञ्चदशीव्याख्या विशुद्धदृष्टिनाम्नी कृता च ।।

(E) भागवतानन्दकृतम् - भाष्यविवेचनम् ।

ग्रन्थोऽयं दासगुप्तेन निर्दिष्टः। सूर्यपण्डितकृता व्याख्या च पूना नगरे मुद्रिता । व्याख्याया नाम परमार्थप्रमा इति दृश्यते ।

(F) रामरायकवि (बेल्लङ्कोण्डा) रचिता अर्कप्रकाशिकानाम्नी व्याख्या अमुद्रिता विद्यते ।

2. उपनिषद्ब्रह्मेन्द्रकृता - भगवद्गीताव्याख्या ।

अस्याः नाम अडयार सूच्यां (34. 18. ग्र 550 AL) अर्थप्रकाशिका इति दृश्यते महीशूरसूच्यान्तु ब्रह्मतत्वप्रकाशिका "इति दृश्यते अमुद्रितेयं व्याख्या । " अस्याः कर्ता उपनिषद्ब्रह्मेन्द्रः, वासुदेवेन्द्रप्रशिष्यः, वासुदेवेन्द्रशिष्यः रामचन्द्रेन्द्रसतीर्थ्यः कृष्णानन्दगुरुः, अष्टादशशतकीयः उपनिषदां विवरणकार इति ज्ञायते ।।

3. कल्याणभट्टकृता - भगवद्गीताटीका । ग्रन्थोऽयममुद्रितः मध्यप्रान्तीय बरार्ग्रन्थसूच्यां (1383 CCPB) दृश्यते

4. कृष्णकृता - भगवद्गीताभावप्रकाशिका ।

ग्रन्थोऽयं मध्यप्रन्तीयबरार्ग्रन्थसूच्यां (1390 CCPB) दृश्यते यद्यय कृष्णपण्डितः कैवल्यदीपिकाकारस्यात्तर्हि चोलदेशीयः कृष्णानन्दयतिशिष्य अष्टादशशतकीय इति निर्णेतुं शक्याते ।।

5. कृष्णानन्दसरस्वतीकृतः - भगवद्गीतैकदेशपरामर्शः ।

गीतायाः भेदवादे तात्पर्यं निरस्य अद्वैतब्रह्मवादे तात्पर्यं वर्णयन्नयं ग्रन्थ "गवर्नमेण्ट प्रेस गोण्डारप्रटे नगरे" मुद्रितः ।। अस्य कर्ता सच्चिदानन्दाश्रमस्य वासुदेवेन्द्रयोगितश्च शिष्यः वाराणसीवासी एकोनविंशतिशतकीय (1825 - 1900 A.D.) कृष्णानन्दसरस्वतीति ज्ञायते । अदसीया अन्ये ग्रन्था अन्यत्र प्रतिपादिताः ।

6. कृष्णानन्दसरस्वतीकृतः - गीतासारोद्धारः।

अस्य कर्ता अद्वैतसाम्राज्यकारः कैवल्यानन्दकृष्णानन्दयोः शिष्य एकोनर्विशतिशतकीयः कृष्णानन्दसरस्वतीति ज्ञायते ।।

7. धनपतिसूरिकृता - गीताभाष्योत्कर्षदीपिका ।

अस्य कर्ता धनपतिसूरिः पञ्जाबन्तर्गतरावलपिण्डीनगरवासी रामकुमारसूरिपुत्रः सारस्वतब्राह्मणः, प्रत्यक्तत्वचिन्तामणिकारस्य सदानन्दव्यासवरस्य जामाता बालगोपालतीर्थशिष्यः, अष्टादशशकापरार्धादारब्धे (1750 - 1850 A.D.) काले आसीदिति ज्ञायते । अदसीयाः वेदान्तपरिभाषाव्याख्या अर्थदीपिकाद्याः अन्यत्र प्रतिपादिताः ।।

8. नीलकण्ठतीर्थकृतः - गीतार्थप्रकाशकः

अमुद्रितोऽयं ग्रन्थः मद्रासराजकीयपुस्तकालये (D. 2081 MGOML) लभ्यते । अस्य कर्ता नीलकण्ठतीर्थः गोविन्दसूरिसूनुः बालतीर्थशिष्यः आत्मयोगिनीगुरुः केरलवासी अष्टादशशतकीय (1775 - 1875 A.D.) इति ज्ञायते ।। मुद्रितश्च निर्णयसागरमुद्रणालये ।

9. भारद्वाजकृता - भगवद्गीतासङ्गतिमाला

135 पद्यैः पूर्णोऽयं ग्रन्थः भगवद्गीतायाः ज्ञानयोगे एव तात्पर्यमिति वर्णयति । अज्ञातकर्तृनामधेया व्याख्याप्यस्ति। अमुद्रितोऽयं ग्रन्थ मद्रासराजकीयपुस्तकालये (R. 5336 MGOML) लभ्यते ।

(A) अज्ञातकर्तृनामधेया - भगवद्गीतासङ्गतिमालाव्याख्या

अमुद्रितोऽयं ग्रन्थ मद्रासराजकीयपुस्तकालये ( R 533 E MGOML) लभ्यते ।

10. मधुसूदनसरस्वतीकृता - गूढार्थदीपिका

मुद्रितोऽयं ग्रन्थः निर्णयसागरमुद्रणालये । अस्य कर्ता मधुसूदनसरस्वती कमलजनयनापराभिधः राममिश्रवंशोत्पन्नः पुरन्दराचार्यपुत्रः, श्रीनाथ-यादवानन्दवागीशगोस्वामिभ्राता, श्रीरामविश्वेश्वरमाधवशिष्यः, पुरुषोत्तम-बलभद्र-शेषगोविन्दगुरुः, हिन्दीभाषाकवितुलसीदास - भारतसम्राडग्बरसामयिकः षोडशसप्तदशशतकवासी (1565 - 1665 A D) इति विस्तरेणोपपादितं अद्वैताचार्यप्रकरणप्रस्तावे ।।

11. धर्मदत्तबच्चाशर्मकृता - गूढार्थतत्वालोकः

निर्णयसागरमुद्रणालये मुद्रितोऽयं ग्रन्थः । नव्यनैय्यायिकशैलीबद्धेयं व्याख्या । अस्याः कर्ता बच्चाशर्मा इति प्रसिद्धः धर्मदत्तः मैथिल एकोनर्विशतिशतकीय व्युत्पत्तिवादव्याख्याता च (1850 - 1920 A.D.) इति ज्ञायते ।।

12. रघुनाथसूरिकृतम् - पदभूषणम्

शङ्करपदभूषणमित्यपरनामायं भगवद्गीताव्याख्यात्मकः ग्रन्थः कुत्रात्य इति न ज्ञायते । परन्तु शङ्करशास्त्रिमारुलकारेण ब्रह्मसूत्रवृत्तिशङ्करपादभूषणभूमिकायां Page 101 निर्दिश्यते । ग्रन्थकारोऽयं रघुनाथसूरिः ब्रह्मसूत्रव्याख्याखङ्करपादभूषणकारः रामचन्द्रसूरिपुत्रः रामशास्त्रिपिता राघवाचार्यशिष्यः, एकोनर्विशतिशतकीय (1850 A.D.) इति ज्ञायते ।।

13. राघवानन्दकृता - तत्वार्थचन्द्रिका ।

अमुद्रितोऽयं ग्रन्थ तिरुवनन्तपुरसूच्यां (282 DC. TCD) महीशूर पुस्तकालये (443) च दृश्यते । अस्य कर्ता राघवानन्दस्स्वयम्प्रकाशप्रशिष्यः, कृष्णानन्दरामभद्रानन्दशिष्यस्सप्तदशशतकीयः (1685 A.D.) परमार्थसारव्याख्याता चेतिज्ञायते ।।

14. रामचन्द्रानन्दसरस्वतीकृता - तत्त्वदीपिका ।

पदयोजना इत्यपरनामायं ग्रन्थ अमुद्रितः मद्रासराजकीय पुस्तकालये (D. 2068, R. 1921 MGOML) बरोडा - तिरुपति - महीशूर-अडयारपुस्त -कालयेषु च लभ्यते । अस्य कर्ता रामचन्द्रानन्दः नारायणानन्दसरस्वतीप्रशिष्यः लघुचन्द्रिकाकर्तुः ब्रह्मानन्दसरस्वत्याः शिष्यः, बालकृष्णानन्दसतीर्थ्यस्सप्तदशशतकापरार्धारब्धकालवासीति (1650 - 1920 A.D.) ज्ञायते ।।

15. रामानन्दसरस्वतीकृतः - गीताशयः ।

भगवद्गीताभाष्यसंग्रहात्मकोऽयं ग्रन्थः व्याख्यारूपश्चामुद्रितः विद्यारण्यपुर सूच्यां (137) दृश्यते । एष एव ग्रन्थः भाष्यव्याख्यात्मक इति बरोडा सूच्यां निर्दिष्ट इति ज्ञायते । रामनन्दोऽयं स्वयम्प्रकाशकृष्णानन्दरामभद्रानन्दानां प्रशिष्यः, राघवानन्दशिष्यः गौडब्रह्मानन्दादर्वाचीन इति पूर्वमुपपादितम् ।

16. लिङ्गोजीपण्डितकृता - व्यासभावप्रकाशिका ।

भगवद्गीताव्याख्यात्मकोऽयं ग्रन्थ मद्रासराजकीयहस्तलिखितपुस्तकालये (R 2294 MGOML) लभ्यते ।।

17. वासुदेवशास्त्री अभ्यङ्करकृतः - अद्वैताङ्कुरः ।

भगवद्गीतायाः प्रथमद्वितीयाध्यायव्याख्यात्मकोऽयं ग्रन्थ आनन्दाश्रममुद्रणालये (ASS 109) मुद्रितः ।

अस्य कर्ता वासुदेवशास्त्री अभयङ्करः नागोजीभट्टप्रशिष्यस्य भास्कराचार्यस्य पौत्रः प्रशिष्यः शिष्यश्च, रामशास्त्रिशिष्यः पुण्यनगरवासी एकोनविंशतिशतकीयः (1850 - 1920 A.D.) अद्वैतामोदकर्ता चेति ज्ञायते ।।

18. वासुदेवशिष्यकृताः - कुमारकारिकाः ।

भगवद्गीतार्थसंग्राहकोऽयं ग्रन्थ तिरुवनन्तपुरपुस्तका कलये (280 DCTCD) लभ्यते । अस्य कर्ता पुरुषोत्तमवासु देवयोश्शिष्यः विवेकसारादिकर्ता इति परं ज्ञायते ।

19. वेङ्कटनाथकृता - ब्रह्मानन्दगिरिः ।

भगवद्गीताव्याख्यात्मकोऽयं ग्रन्थ द्वैतविशिष्टाद्वैतखण्डनपरः शाङ्कारभाष्यानुसारी वाणीविलासमुद्रणालये (VVSS. 12) मुद्रितः । ग्रन्थेऽस्मिन् " अद्वैतवज्रपञ्जर" तैत्तरीयोपनिषट्टीका च निर्दिष्टे । अस्य कर्ता वेङ्कटनाथः अभिनवशङ्कराचार्यापरनामकरामब्रह्मानन्दसरस्वतीशिष्य इति परं ज्ञायते । यद्ययं वेङ्कटनाथः धर्मंराजाध्वरिणा निर्दिष्टः वेङ्कटनाथस्स्यात् तर्हि वेलाङ्गुडिवासी धर्मराजाध्वरिगुरुष्षोडशशतकवासीति (1550 - 1650 A.D.) परं निर्णेंतु शक्यते ।।

20. श्रीधरस्वामिकृता - सुबोधिनी ।

भगवद्गीताशाङ्करभाष्यानुसारिणीयं व्याख्या निर्णयसागरमुद्रणालये आनन्दाश्रममुद्रणालये च मुद्रिता । अस्य कर्ता श्रीधरस्वामी "परमानन्दपादाब्जरजः श्रीधारिणामुना" इति वदन् आत्मानं परमानन्दतीर्थशिष्यं निर्दिशति । यद्ययं परमानन्दः गुरुचन्द्रिकाकर्तुः गौडब्रह्मानन्दस्य गुरोः परमानन्दात् न भिन्नः, यदि च रत्नप्रभाकारस्य रामानन्दसरस्वत्यास्सतीर्थ्यात् स्वयम्प्रकाशगोविन्दानन्दयोश्शिष्यात् परमानन्दात् न भिन्नस्तर्हि अस्य कालः (1550 - 1650 A.D.) इति वक्तुं शक्यते । अस्य प्रतिलिपिकालः (1668 सं 1612 A.D) इति पञ्चावसूच्यां दृश्यते । एवञ्च सप्तदशशतकपूर्वार्धात् प्राचीन इति परं निर्णेतुं शक्यते ।।

21. शङ्करानन्दकृता - तात्पर्यद्योतिनी ।

भगवद्गीताव्याख्यात्मकोऽयं ग्रन्थः निर्णयसागरमुद्रणालये मुद्रितः । अस्य कर्ता शङ्करानन्द आन्दात्मशिष्य आत्मपुराणादिविविधग्रन्थकर्ता विद्यारण्यगुरुस्त्रयोदशशतकापरार्धारब्धकालवासी (1275 - 1350 A.D.) इति निश्चीयते । अस्यैव विद्यातीर्थः, विद्याशङ्कर इति नामान्तरमिति, शङ्करानन्दस्य शिष्यः प्रथमसदानन्द इत्यादिविविधसिद्धान्तः प्रकरणग्रन्थप्रस्तावे प्रतिपादितः ।

22. सदानन्दव्यासवरकृतः - गीताभावप्रकाशः ।

भगवद्गीताया शाङ्करभाष्यानुसारिणीयं व्याख्या पद्यमयी चौखाम्बामुदणालये मुद्रिता । अस्याः कर्ता सदानन्दव्यासवरः प्रत्यक्तत्वचिन्तामणिकारः, सारस्वतब्राह्मणकुलोत्पन्नः, पञ्चाबदेशान्तर्त्मत रावलपिण्डी जिलान्तर्गतः, नानकसम्प्रदायानुगतवाबारामदयालु प्रेमपात्रमपि शाङ्करसिद्धान्तपक्षपाती शिवलाल प्रेम पात्रं, धनपति सूरिश्वशुरः वासुदेवयोगिनः प्राप्तदीक्षः, अष्टादशशतकीय (1740 -1810 A.D.) इति निश्चयः । अभिनवगुप्ताचार्यकृतः "गीतार्थसंग्रहः" श्च मुद्रितः । अभिनवगुप्तश्च काष्मीरी भट्टेन्दुराज शिष्यः। अस्य जीवनकालः (993 - 1015 A.D.)

23. हनूमत्कृतम् - पैशाचाभाष्यम् ।

ग्रन्थोऽयं चौखाम्बामुद्रणालये मुद्रितः ।

24. अज्ञातकृर्तृकः - गीतासारः ।

भगवद्गीतासारोऽयं ग्रन्थः विद्यारयप्पुरसूच्यां (118) दृश्यते ।

25. अष्टादशश्लोकी भगवद्गीता

ग्रन्थोऽयं सरस्वतीमहालये (8939 DC. TSML) दृश्यते ।

गीताप्रस्थानम्

इतरे गीताः

अगस्त्यगीता
अनुगीता
अवधूतगीता
अष्टावक्रगीता
ईश्वरगीता
उत्तरगीता
ऋभुगीता
कपिलगीता
गणेशगीता
जीवन्मुक्तिगीता
ज्ञानगीता
देवीगीता
बोधानन्दगीता
ब्रह्मगीता I
ब्रह्मगीता II
रामगीता
रुद्रगीता
वासिष्ठगीता
शिवगीता
शिवरामगीता
श्रुतिगीता
सिद्धगीता
सिद्धान्तगीता
सूतगीता
सूर्यगीता
हंसगीता