रत्नप्रभाप्रस्थानम्

ब्रह्मसूत्रप्रस्थानम्

शाङ्करभाष्यव्याख्यात्मकोऽयं ग्रन्थः निर्णयसागरमुद्रणालये चौखम्बामुद्रणालये च मुद्रितः । ग्रन्थेऽस्मिन् (Page 5) जगन्नाथाश्रमिकृता सूत्रभाष्यव्यख्या " भाष्यदीपिका " निर्दिष्टा । अस्य कर्ता द्रवि़डदेशवासी श्वेतगिरिअभयानन्द (सत्यानन्द) - आनन्दपूर्ण - पुरुषोत्तम - शिवरामानन्द - गोपालानन्द - सरस्वतीपरम्परागतः गोविन्दानन्दस्य स्वयम्प्रकाशानन्दस्य च शिष्यः ब्रह्मविद्याभरणकारस्याद्वैतानन्दस्य गुरुप्षोडशशतकापरार्घवासी (1550-1650 A.D.) रामानन्दसरस्वतीति ज्ञायते । मुद्रितपुस्तके तु गोविन्दानन्दकृतत्वेनैव निर्दिष्टम् । परन्तु " गोविन्दानन्दवाणीचरणकमलगो निर्वृतोऽहं यथालिः" इति दर्शनात् गोविन्दानन्दशिष्य एवास्य कर्ता भवितुमर्हति। गुरुकृतत्वेन निर्देशस्तु आदरातिशयेनेति निर्णीयते । अत एव रत्नप्रभाया रामानन्दीयमिति व्यवहारोऽपि सङ्गच्छते । केचित्तु साम्प्रदायिकाः गोविन्दानन्दकृत इत्येव वदन्ति। रामानन्देव विवरणोपन्यासादय अन्येऽपि ग्रन्था विरचिताः ।

I. रत्नप्रभाभागव्याख्या - रत्नप्रभाभागदीपिका

" जिज्ञासासूत्रमारभ्य प्रागानन्दमयोक्तितः। भाष्यरत्नप्रभाव्याख्यां व्याकुर्वेभक्तितः कृतिम् ।। " इति ग्रन्थकृतैव प्रतिज्ञातत्वेनामुद्रितोऽयं ग्रन्थ ईक्षत्यधिकरणान्त एव अडयारपुस्तकालये मद्रासराजकीयहस्तलिखितपुस्तकालये (R. 2782) लभ्यते । अस्य कर्ता स्वयम्प्रकाशाद्वैतानन्दयोश्शिष्यः रामानन्दप्रशिष्यः दाक्षिणात्यः भामतीव्याख्याभावदीपिका - वनमालादिकारः सप्तदशशतकापरार्धवासी (1650 - 1750 A.D.) अच्युतकृष्णानन्दतीर्थ इति ज्ञायते ।

II. रत्नप्रभाव्याख्या - पूर्णानन्दीया

चतुस्सूत्र्यन्तोऽयं ग्रन्थः चौखाम्बामुद्रणालये मुद्रितः। अस्य कर्ता ब्रह्मविद्याभरणकारस्य अद्वैतानन्दस्य शिष्यः रामानन्दस्य प्रशिष्यः, अच्युतकृष्णानन्दसतीर्थ्यः, सप्तदशशतकीयः (1650 - 1750 A.D.) पूर्णानन्दसरस्वतीति ज्ञायते । अनेन समन्वयसूत्रे " अस्मद्गुरुभिः ब्रह्मविद्याभारणे " इति ब्रह्मविद्याभरणं निर्दिश्यते ।

III. रत्नप्रभाव्याख्या

अमुद्रितोऽयं ग्रन्थः मैसूरपुस्तकालये लभ्यते । अस्य कर्ता ब्रह्मविद्याभरणकारस्य अद्वैतानन्दस्य ज्ञानानन्दस्य च शिष्यः प्रकाशानन्दः नानादीक्षितगुरुः रत्नप्रभाकर्तू रामानन्दस्य सामयिकश्च षोडशशतकापरार्घकालवासी (1550 - 1650 A.D.) ति निश्चीयते ।

IV. रत्नप्रभाव्याख्या - अभिव्यक्ता ।

अज्ञातकर्तृनामायममुद्रितग्रन्थः अडयारपुस्तकालये लभ्यते ।।

अन्याश्व काश्चन विश्वेदकृता ब्रह्मसूत्रभाष्यव्याख्या, रघुनाथभट्टाचार्यकृता सिद्धान्तार्णवब्रह्मसूत्रभाष्यव्याख्याद्या विद्यन्त इति ज्ञायते ।