भामतीप्रस्थानम्

ब्रह्मसूत्रप्रस्थानम्

शङ्करभाष्यव्याख्यात्मकोऽयं अद्वैतवेदान्तशास्त्रे विशिष्टप्रस्थानस्य भामतीप्रस्थानाख्यस्य मूलं महान् ग्रन्थः सव्याख्यः निर्णयसागरमुद्रणालये कल्कत्तायां अन्यत्र बहुत्र स्थलेषु मुद्रितः । अस्य कर्ता ब्रह्मतत्वसमीक्षा - न्यायवार्तिकटीकादिग्रन्थकर्ता षड्दर्शिनीटीकाकृत् मण्डनमिश्रमतानुसारी तत्वचिन्तामणिप्रकाश - न्यायसूत्रोद्धारादिकर्तुर्वाचस्पतेर्भिन्न अाचार्यवाचस्पतिमिश्रः। सोऽयं वाचस्पतिमिश्रः मिश्रान्तनामसम्बन्धात् मुरारिमिश्रपार्थसारथिमिश्रादिवत् मैथिल इति ज्ञायते । केचित्तु नेपालप्रान्ते भामा नामकः कश्चन ग्रामः । नमघिवसन् वाचस्पतिमिश्रः तद्देशप्रसिध्यै तद्देशस्मरणाय वा भामतीग्रन्थं चकारेति वदन्ति । सम्प्रदायसमागता तु कथा -

वाचस्पतिमिश्रस्य भामतीनाम्न्या श्रीमत्या सह विवाह आसीत् । विवाहकाले काचन पण्डितपरिषत्सञ्जाता । वेदान्तशास्त्रे वादस्समजनि । वेदान्तेतरविदुषां वादः युक्तयश्च प्रबला अद्वैतवादिनां युक्तय दुर्बलाश्चासन् । ततः प्रभृति अद्वैतवेदान्तयुक्तीः सबलास्सप्रमाणाश्च कर्तुं यत्नं कुर्वतः ग्रन्थस्यास्य रचयितुर्वाचस्पतिमिश्रस्यगतं नवीनं वय। ग्रन्थनिर्माणे मग्नस्यास्यापरे वयसि काचन नातिवृद्धा नष्टुप्राययौवना स्त्री समायाता । ताञ्च स्वपत्नी अक्षतयोनिं असञ्जातसन्ततिं स्वं ग्रन्थनिर्माणे मग्नञ्च ज्ञात्वा स्वरचितग्रन्थस्य भामतीति स्वपत्न्याः नाम चकारेति । अपरे तु वाचस्पतिमिश्रस्य कन्या भामतीनाम्नी यस्यास्स्मृत्यै स्वग्रन्थस्य तन्नाम चकारेति वदन्ति। परन्तु ग्रन्थात् एतादृशवादानां किमपि प्रमाणं नास्ति ।

तात्पर्यटीकायां वाचस्पतिमिश्रैः "त्रिलोचनगुरून्नीतमार्गानुगमनोन्मुखैः " इति कथनात् वाचस्पतिमिश्रगुरोर्नाम त्रिलोचनमिश्र इति ज्ञायते । केचित्तु "मार्ताण्डतिलकस्वामिमहागणपतीन्वयम् " इति भामत्यां मङ्गलाचरणात् तिलकस्वामी अस्याचार्य इति वदन्ति। परन्तु अमलानन्देन समस्तशब्दोऽयं मार्ताण्डतिलकस्वामिशब्दः देवतापर इति व्याख्यातम् । एवञ्च तिलकस्वामी नास्याचार्य इति भवति । उदयनाचार्येण न्यायवार्तिकतात्पर्यपरिशुध्यां वाचस्पतिमिश्रः त्रिलोचनशिष्यइत्येव प्रतिपाद्यते । दासगुप्तमहाशयस्तु विद्यातरुरपि अस्य गुरुरिति (HIP Vol II 107) प्रतिपादयति ।

वाचस्पतिमिश्रेण "न्यायसूचीनिूबन्धः" वस्वङ्कवसुवत्सरेषु निर्मितः । यदिवयं वस्वङ्कवसुवत्सरान् 898 शकाब्दान् स्वीकुर्मस्तर्हि अस्य काल (898 - 976 A.D.) इति दशमशतकमस्य काल इति सिध्यति । यदि विक्रमाब्दान् स्वीकुर्मस्तर्हि अस्यकालः (898 सं, 842 A.D.) इति सिध्यति । सर्वथा नवमशतकवर्तीति तु निश्चयः ।।

I. भामतीव्याख्या - कल्पतरुः

भामती व्याख्यात्मकोऽयं ग्रन्थः यत्र तत्र प्रकटार्थकारं खण्डयन् भामतीपक्षमक्षुण्णं साधयति । मुद्रितश्चायं ग्रन्थः वाणीविलासमुद्रणालये निर्णियसागर मुद्राणालये च । अस्य कर्ता दीक्षाग्रहणे आनन्दात्मप्रशिष्यः अनुभवानन्दशिष्यः विद्यायां चित्सुखाचार्यप्रशिष्यः सुखप्रकाशशिष्यश्चायं व्यासाश्रम इत्यपरनामा अमलानन्दः त्रयोदशशतकापरकालिकः (1247 - 1347 A.D.) इति निश्चीयते । देवगिरिराजः कृष्णः तद्भ्राता महादेवश्च ग्रन्थेऽस्मिन् निर्दिष्टौ ।

1. कल्पतरुव्याख्या - परिमलः

कल्पतरुव्याख्यात्मकोऽयं ग्रन्थः वाणीविलासमुद्रणालये मुद्रितः । अस्यकर्ता वक्षस्थलाचार्यापरनामकस्य आचार्यदीक्षितस्य पौत्रः, विवरणदर्पणकारस्य रङ्गराजाध्वरिणः पुत्रः, पितुरेव प्राप्तविद्यः, सच्चिदानन्दशास्त्रीत्यपरनामकात् नृसिम्हाश्रणिणः प्राप्ताद्वैतमतपक्षपातः काञ्चीमण्डलान्तर्गताडयप्पलग्रामवासी, आचार्यदीक्षितस्य भ्राता रत्नखेटश्रीनिवासदीक्षितजामाता, मङ्गलनायिकायाः भर्ता, नीलकण्ठउमामहेश्वर - चन्द्रावतंसानां पिता, चतुरधिकशतग्रन्थप्रणेतृत्वेन प्रसिद्धः षोडशशतकवासी (1520 - 1593 A.D.) अप्पय्यदीक्षितः ।

(A) परिमलसंग्रहः

अप्पय्यदीक्षितकृतं परिमलं संगृह्णात्ययं ग्रन्थः। अमुद्रितोऽयं ग्रन्थः प्रथमाध्यायतृतीयपादान्तं मद्रासराजकीयहस्तालिखितपुस्तकालये (R. 2811) लभ्यते । अस्य कर्ता दक्षिणदेशीयः उपनिषद्बह्मेन्द्रपरम्परागतः रामचन्द्राश्रमिशिष्यः अष्टादशशतकीयः (1700 - 1800) तारकब्रह्माश्रमीति ज्ञायते। अनेनोपनिषदामपि सारस्सङ्गृहीतः ।

2. कल्पतरुव्याख्या - आभोगः

अप्पय्यदीक्षितीयपरिमलार्थानुसारिणीयं कल्पतरुव्याख्या आभोगनाम्नी मद्रासराजकीयहस्तलिखितपुस्तकालयग्रन्थमालायां मुद्रिता । अस्य कर्ता कोण्डुभट्टरमाम्बयोः पुत्रः महीधरवंशजः नारायणेन्द्रसरस्वतीशिष्यः सप्तदशशतकापरार्धवासी (1650 - 1750 A.D.) लक्ष्मीनृसिम्हः । यद्ययं कोण्डुभट्टः रङ्गोजिभट्टस्य पुत्र भट्टोजिदीक्षितस्य भ्रात्रीयस्स्यात्तर्हि लक्ष्मीनृसिम्हः रङ्गोजिभट्टपौत्र इति भवेत् । तिरुविशनल्लर रामसुब्रह्मण्यशास्त्रिकृते " न्यायेन्दुशेखर दोषयोगघटन " ग्रन्थे तु लक्ष्मीनृसिम्हः कोट्टयूर्ग्रामवासीति निर्दिश्यते । एवञ्चायं दाक्षिणात्यो भवति । अनेन व्याकरणशास्त्रेऽपि सिद्धान्तकौमुदीव्याख्या विलासनामा ग्रन्थो विरचितः ।

(A) आभोगटिप्पणी

आभोगार्थं सङ्गृह्णन् आभोगार्थं मन्दाधिकारिबोधार्थं विशदयन्नयं ग्रन्थः मद्रासराजकीयहस्तलिखितग्रन्थमालायां मुद्रितः । अस्याः कर्ता शास्त्ररत्नाकरबिरुदभूषितः द्रविडात्रेयदर्शन - चतुर्मतसामरस्यादिग्रन्थप्रणेता अद्वैतवेदान्तनिष्णातः मद्रपुरीसंस्कृतकलाशालावेदान्तप्राध्यापकः विंशतिशतकीयः पोलकग्रामाभिजनः श्रीरामशास्त्रीति ज्ञायते ।

3. कल्पतरुव्याख्या - कल्पतरुमन्दारमञ्जरी

कल्पतरुव्याख्यात्मकः परिमलसंग्राहकश्चायं ग्रन्थ अमुद्रितः लन्दननगरस्थभारतकार्यालयपुस्तकालये (2249 IOL) लभ्यते । अस्य कर्ता पदवाक्यप्रमाणाभिज्ञः रामचन्द्रतत्सदाख्यस्य पुत्रः वैद्यनाथपायुगुण्डे इत्यपरनामा भट्टवैद्यनाथः । अनेन शास्त्रगदीपिकायाः व्याख्या प्रभानाम्नी (1767 1711 A.D.) काले कृता इति हालसूच्यां (Page 174 XV) दृश्यते। वेदान्तकल्पतरुमन्दारमञ्जर्याः प्रतिलेखनावसरः (1778 सं 1722 A.D.) इति दृश्यते । तस्मादस्य कालः (1650 1750 A.D.) भवितुमर्हति ।

4. कल्पतरुव्याख्या - अज्ञातकर्तृनामधेया ।

इयं व्याख्या हरप्रसादशास्त्रिसंस्कृतहस्तलिखितग्रन्थसूच्यां निर्दिश्यते ।।

II. भामतीव्याख्या - ऋजुप्रकाशिका

भामतीव्याख्यारूपाया ऋजुप्रकाशिकायाश्शैली अतिसरला बालसुबोधाऽर्थपूर्णा च । प्रतिपदव्याख्यारूपोऽयं ग्रन्थः कल्कत्तासंस्कृतग्रन्थमालायां मुद्रितः । ग्रन्थेऽस्मिन् अद्वैतरत्नकोशप्रकाशिका निर्दिष्टा । अस्य कर्ता सन्यासस्वीकारात्पूर्वं रङ्गनाथनामा अद्वैतरत्नकोशव्याख्यातुः भेदधिक्कारविवृतिकर्तुश्च कालहस्तीशयज्वनः (1550 - 1620 A.D.) पुत्रः यज्ञाम्बायाः गर्भजः नलगन्तुवंशजः स्वयम्प्रकाशानन्दसरस्वत्याश्शिष्य अखण्डानन्दसरस्वतीति ज्ञायते । अस्याश्रयदाता सामयिकश्च इम्मिडिजगदेकरायः (जगदेकरायद्वितीयः) । अस्य राज्यशासनकालः क्रैस्तवीयषोडशशतकात् सप्तदशशतकमिति S. कृष्णस्वाम्यय्यङ्गार्कृतविजयनगरेतिहासग्रन्थात् ' यफिग्राफिका ' कर्नाटिका आफ मैसूर पार्ट I (Page 27-28) भूमिकायाश्च ज्ञायते । तस्मादयं षोडशसप्तदशशतकवासी तत्त्वदीपनकाराद्भिन्न इति च निश्चीयते ।

III. भामतीव्याख्या - भामतीतिलकम्

भामतीव्याख्यात्मकोऽयं ग्रन्थ अमुद्रितः मद्रासराजकीयहस्तलिखितपुस्तकालये (R. 4190 MGOML) मैसूर - बरोडासरस्वतीमहालयादिषूपलभ्यते । अस्य कर्ता कोटिकलाग्रामवासी नागमाम्बात्रिविक्रमाचार्ययोः पुत्रः अनन्तार्यंप्रज्ञानारण्ययोश्शिष्य अल्लालसूरिः । अनेन स्वग्रन्थे व्यासाश्रमशब्देन अमलानन्दः निर्दिष्टः । चित्सुखाचार्यश्च प्रमाणीकृतः । " अक्षुण्णायामरण्यान्यां भामत्यां वर्त्म यो व्यधात् । सुगमं प्रणमासस्तं व्यासाश्रममुनीश्वरम् " इति पद्ये व्यासाश्रमशब्द अमलानन्दमेव बोधयति । भामतीव्याख्यानेषु तस्यैव व्याख्यानस्य प्राथम्यात् । केचित्तु व्यासाश्रमामलानन्दौ भिन्नावित्यभ्युपगच्छन्ति । तेषां मतेन सुगम इति काचन भामतीव्याख्या आसीद्या च नाममात्रप्रसिद्धेदानीमिति वक्तव्यमापतति ।

यदि व्यासाश्रमामलानन्दावभिन्नौ तर्हि अल्लालसमयः (1300 A.D.) कालादर्वाचीन अ पय्यदीक्षितनामाग्रहणात् अप्पय्यदीक्षितात् प्राचीन इति सिध्यति । बरोडाहस्तलिखितपुस्तकालयस्थे भामतीतिलकादर्शपुस्तके तस्य प्रतिलिपिकालः (1335 A.D.) इति दृश्यते । तस्मात् कालात्प्राचीनः चित्सुखाचार्यकालात् (1120 -1220 A.D.) अर्वाचीन इति तु निश्चयः । केचित्तु (1600 - 1750 A.D.) कालमध्यवर्ती अल्लालसूरिरिति वदन्ति ।। शशतकापरार्धादारब्धे अष्टादशशतकपूर्वार्धान्ते काले वसन् अच्युतकृष्णानन्दतीर्थ इति ज्ञायते ।।

IV. भामतीव्याख्या - भावदीपिका

कल्पतरुपरिमलसंग्रहरूपेयं भामतीव्याख्या अमुद्रिता अडयारहस्तलिखितपुस्तकालये (39. E. 9. AL) लभ्यते । अस्य कर्ता तैत्तरीयशाङ्करभाष्यव्याख्यावनमालाकारः स्वयम्प्रकाशाद्वैतानन्दसरस्वत्योश्शिष्यः रामानन्दस्य प्रशिष्यः सप्तद शशतकापरार्धादारब्धे अष्टादशशतकपूर्वार्धान्ते काले वसन् अच्युतकृष्णानन्दतीर्थ इति ज्ञायते ।।

V. भामतीविवरणम्

ग्रन्थोऽयं वाणीविलासमुद्रणालये मुद्रितः । अस्य कर्ता रामस्वामिशर्मणः पुत्रः पालकाडन्तर्गत काविशेरिग्रामाभिजनः अङ्गाडिपुरसुब्रह्मण्यशास्त्रिणः प्राप्तन्यायशास्त्रः व्याकरणे छन्दश्शास्त्रे च निष्णातः (1879 - 1947 A.D.) कालवासी सुब्रह्मण्यशास्त्रीति ज्ञायते।

VI. भामतीटीकाप्रकाशः - भामतीविकासश्च ।

चतुस्तूत्रीभामतीटीकाप्रकाशकाविमौ ग्रन्थौ चौखाम्बामुद्रणालये मुद्रितौ। अनयोः कर्ता लक्षमीनथझा इति ज्ञायते। आधुनिकोयं (1952 A.D.) वाराणसीवासी ।

VII. भामतीयुक्तार्थसंग्रहः

अज्ञातकर्तुनामायं ग्रन्थः " हलषरिपोर्ट आक सान्स्कृट् मानस्क्रिप्ट्स " ग्रन्थे दृश्यते ।

VIII. भामतीविलासः

ग्रन्थोऽयं दासगुप्तमहाशयेन स्वीयदर्शनसाहित्यचरिते (HIP Vol II Page 108) निर्दिष्टः। अज्ञातकर्तृनामायं ग्रन्थः कुत्रत्य इत्यादि न ज्ञायते । श्रीरङ्गनाथकृता काचन भामतीव्याख्यापि अस्तीति Rice महाशयो निर्दिशति ।