शङ्करभगवत्पादः

788-820 A. D.

गुरुशिष्यपरम्परा

परिचयः

शङ्कराचार्यवतारसमये धर्मपरिस्थितिः-

सनतनकालत एव प्रबलप्रमाणपूर्वकं आत्यन्तिकनिःश्रेयसाधिगमसाधनत्वेन श्रुतिपुराणभगवद्गीतोपनिषद्भिः महद्भिराचार्यैश्च निरूपितोऽयमद्वैतसिद्धान्तः । स च क्रैस्तवीयचतुर्थशतकात्पूर्वमुत्पन्नेन शाक्यमुन्यपरनाम्ना गौतम बुद्धेन तात्कालिकपरिस्थित्यनुसारं प्रवर्तितस्य बहूनां धारापतीनां प्रवेशात् अतिमहर्ती वृद्धिमाप्तस्य बौद्धमतस्य, तच्छाखान्तरस्य जैनमतस्य च प्रसरणेन प्रसारणेन च, धर्मपाखण्डानां स्वार्थपराणां धर्मकर्मकितवानां भारतीयार्याणां केषाञ्चित् आचारेण च, निःस्वार्थधर्मप्रचारकाचार्याभावेन, कर्मनिष्ठानां निरीश्वरमीमांसकानां प्रबलप्रोत्साहनेन कर्मभरभारपीडिते च लोके, धर्मनाम्ना तत्र तत्र हिंसाप्रधानेषु कर्मसूज्जृम्भतामाप्तेषु, बुद्धमतानुयायिनां विहारविहारिणां आहार विहारपराणां भिक्षूणां धर्माभासेन च जनतायां अनादिवैदिकमतं प्रति द्वेषे स्मुत्पन्ने अत्यधिकसम्पत्तिसमृद्धिवशात् अत्यधिकसुखानुभवाच्च स्थिरनित्यानन्देप्सावति च लोके विभिन्नमतप्रवर्तकाचार्योपदेशानां अनैक्यपराणां बलेन भ्रान्ते आविले च समाजे प्राचीनोऽयं उपनिषत्प्रतिपादितस्सर्वधर्मसमन्वयपर अद्वैतसिद्धान्तमार्गः ह्नासोन्मुख इबाभृत् । तादृशं अद्वैतमतं परित्रातुं भगवतः परमेश्वरस्य साक्षादवतार भूताश्शङ्कराचार्या इति प्रसिद्धिः ।

शङ्कराचार्यप्रभावः -

देवप्रार्थनया शङ्करावतारभूतैश्शङ्कराचार्यैरद्वैतात्मवादः सर्वत्र प्रकाशितः प्रसारितश्च ।

``अष्टवर्षे चतुर्वेदी द्वादशे सर्वशास्त्रवित् ।
षोडशे कृतवान् भाष्यं द्वात्रिंशे मुनिरत्यगादिति" ॥

प्रसिद्धाभाणकानुसारं वयस्यल्पे एव सर्वत्र शिष्यगणैस्साकं सञ्चारं कृत्वा अद्वैतात्म वादः पुनरुज्जीवितः । शङ्कराचार्यैः एकोनशतसंख्याका ब्रह्मसूत्रव्याख्याः खण्डिता इति उमामहेश्वरेण तत्वचन्द्रिकायां वर्णितम् । बौद्धजैनमतानि तर्क पातञ्जलादि दर्शनानि कर्मब्रह्मवादिमतानि अन्यानि च वैदिकप्रमाणप्रबलयुक्तिभिस्सप्रमाणाभिः प्रौढाभिश्च रीतिभिस्सञ्चूर्णितानि ।

जीवब्रह्मणोरैक्यं, ब्रह्मण एव सत्यत्वं, नामरूपाणां मिथ्यात्वं, सर्वदेशकालवस्त्वपरिच्छिन्नसत्ताकत्वमेव सत्यत्वं, मिथ्यारूपस्य जगत आत्मनि कल्पितत्वं, कल्पनाप्यज्ञानेन वस्तुतः ब्रह्मव्यतिरिक्तसत्ताकं जगत नास्त्येवेत्यादीन् सर्वधर्म समन्वयकरान् जगतश्शान्ति प्रदान् सर्वथा सर्वदा कल्याणप्रदान् कालत्रययोग्यान् सिद्धान्तान् सर्वत्र सम्यगुपदिश्य अद्वैतसिद्धान्तसंरक्षणाय चतसृषु दिक्षु मठान् संस्थाप्य तत्र तत्र स्वीयान् अद्वैतवादकुशलान् शिष्यान् संयोज्य पक्षवेदर्षिमिते शके 742-820 A. D. काले भगवान् शङ्कराचार्यस्स्वधाम प्रपेदे ।

शङ्कराचार्यपितामहः विद्याधिराज इति विश्रुतनामधेयः । राजशेखरराजेन पालिते ``कालटि" नामके ग्रामेऽयमुवास । कालटिग्रामोऽयं केरलदेशान्तर्गतः । शङ्कर - भगवान् स्वावताराय कैलासात् स्वपद्भयामेवागच्छदिति वदन्तः ``काल + अडि" इति तमिलभाषापदं तथैब व्यवहृतं तद्ग्रामस्यान्वर्थनाम चाभूदिति वर्णयन्ति । तद्वास्तव्यस्य विद्याधिराजस्य पुत्रः शिवगुरुरिति प्रसिद्धः परमविद्वानासीत् ॥

शङ्कराचार्यपिता

शङ्कराचार्याणां पितुर्नाम शिवगुरुरिति । बाल्ये एवाधीतविद्योऽयं चतुर्थाश्रमाभिलाषी सञ्जातः, पितुराचार्यस्य चोपदेशेन स्वीकृतगार्हर्स्थ्य अन्वर्थनामास त् । तस्य पत्नी सतीनाम्नीति शङ्करविजयव्याख्याया अवगम्येते । तयोः पुत्रमुखकमल प्रेक्षणसुखं चिरेणापि नाभूत् । अत उभावपि शिवमाराधयामासतुः । तुष्टो भगवान् शङ्कर अनयोः पुत्रत्वमूरीचकार ।

शङ्कराचार्याणां गोत्रम् -

शङ्कराचार्याणां गोत्रमात्रेयगोत्रम् । बृहदारण्यकोपनिषद्वार्तिके शङ्करशिष्यसुरेश्वराचार्यकृते `तं वन्देऽत्रिकुलोद्भवम्' इति दृश्यते ॥

शङ्कराचार्याणां गुरुः -

शङ्कराचार्याणां गुरुः गौडपादशिष्यः गोविन्दभगवत्पादः । शङ्कराचार्यरचितेषु ग्रन्थेषु ``गोविन्दभगवत्पादशिष्येणेति तत्र तत्र दृश्यते । गोविन्दं परमानन्दं मद्गुरुं प्रणतोऽस्म्यहम्" इति विवेकचूडामणौ च दृश्यते । गोविन्दभगवत्पादश्च सोमोद्भवातीरे कस्याञ्चित् गुहायामुवास । शङ्करश्च दूरादेव तं दृष्ट्वा सप्रश्रयं सभक्त्युन्मेषं साञ्जलिबन्धं तुष्टाव । तदनु गोविन्दभगवत्पादश्शङ्करं शिष्यत्वेन स्वीकृत्य साम्प्रदायिकैस्तत्वमसीत्यादि श्रुतिवचनैः ``ब्रह्मतत्वमाचरे"ति उपदिदेश । एवञ्च विद्यागुरुर्गोविन्दभगवत्पाद इति सिध्यति ।

``वृद्धत्रय्यां" गुरुपादहालदारस्तु हैहयराजस्य कामदेवस्य शङ्कराचार्यस्य च गुरुरयं गोविन्दभगवत्पादः परमयोगी सनातनधर्मावलम्बी वेदान्तसम्प्रदायप्रवर्तकः ``रसहृदयाख्य वैद्यग्रन्थप्रणेता सप्तम नवमशतकमध्यावर्तीति प्रतिपादयति ।"

शङ्कराचार्यपरमगुरुः -

गोविन्दभगवत्पादाचार्याणां आचार्यः शङ्कराचार्याणां परमाचार्यः गौडपादाचार्यः । गौडपादाचार्योऽयं गौडदेशीयः । वादप्रतिवादे गौडपादाचार्यैः गौडीया विद्वांसः पराजिताः । गौडपादाचार्योऽयं शुकाचार्यशिष्यः । शङ्कराचार्यस्य सूत्रभाष्यप्रणयने गौडपादाचार्याणां सम्पतिरनुग्रहश्चाभूतामिति शङ्करदिग्विजये श्रूयते । माण्डूक्यकारिकाभाष्येऽलातशान्तिप्रकरणे ``तं पूज्याभिपूज्यं परमगुरुममुं पादपार्तैनतोऽस्मि" इत्यादिना परमगुरोर्नमस्कृतिरावेदिता । ``अमुम्" इत्यस्य व्याख्यानावसरे आनन्दगिरिणापि ``पुरोदेशे सन्निहितत्वेनापरोक्षत्वं सृचितम्" इति व्याख्यातम् । सूत्रभाष्ये द्वितीयाध्यायस्य प्रथमपादे नवमसूत्रभाष्यावसरे गौडपादाचार्यस्य ``अनादिमायया" इत्यादिनी कारिका ``तदुक्तमाचार्येणेत्यादिना" परामृष्टः । एतत्सर्वं शङ्कराचार्याणां गौडपादशिष्यत्वेऽथवा अनुग्रहप्राप्तौ प्रमाणम् ॥

शङ्करशिष्याः-

पद्भपाद - हस्तामलक - तोटक - सुरेश्वराख्याश्चत्वार एतेषां शिष्याः । ते च क्रमेण पञ्चपादिका - विवेकमञ्जरी - श्रुतिसारसमुद्रण - बृहदारण्यकोपनिषत्तैत्तरीयकवार्तिकादिकृतः ॥

शङ्कराचार्यकालः-

शङ्कराचार्याश्च खेन्दुहयमिते शालिवाहनशके प्रादुरभूवन् । ``व्योमभूवाजिसंख्याङ्के शालिवाहनके शुभे । विभवेऽब्दे शुक्लपक्षे वैशाखे दशमीतिथौ । शङ्करः प्रादुरासीत् ब्राह्मण्यस्थितिगुप्तये ।" इति परम्परागतञ्च पद्ममत्र प्रमाणं भवति । बालकृष्णब्रह्मानन्दकृतशङ्करदिग्विजये ``सहस्रद्वितयादूर्ध्वं एकोनर्विशके । शते । एकादशोनंसख्याके वत्सरे कलिमानतः । निधिनागेभवह्न्यब्दे विभवे शङ्करोदयः । कलौ तु शालिवाहस्य सखेन्दुशतसप्तके ।" इति दृश्यते एवञ्च शङ्करोत्पत्तिकालः(788 A. D.) एवं ``कल्यब्दे चन्द्रनेत्राङ्गगुणसंख्ये सुहायने । विहारिनामके तस्मिन् वैशाख्यां शिवतामगात् ।" शालिवाहशकेह्यब्धिहयसंख्ये स शङ्करः । विकारिनामके तस्मिन् वैशाख्यां शिवतामगात् । इत्यादिभिश्च प्रमाणैः (742) शके शङ्करनिर्याणमिति तेषां जीवनकालस्त्रयस्त्रिंशद्वत्सराण्येवेति निश्चीयते । द्विसहस्रवत्सरेभ्यः पूर्वमिति साम्प्रदायिकाः । क्रिस्तोः पूर्वं पञ्चमशतकं (500 BC.) जनन कालः ब्रह्मीभावश्च (476 BC.) इति नारायणशास्त्रिणः ``एज आफ शङ्कर" नामके ग्रन्थे वदन्ति ।

केरलोत्पत्तिनामके ग्रन्थे (400 A. D.) काले शङ्करावतारः । जीवन कालश्च 38 वर्षाणीति प्रतिपाद्यते । K. T. तेलाङ् महाशयस्तु (550-590 A. D.) शङ्करकाल इति (I. A. Val. XIII Page 95) प्रतिपादयति । डा. बेर्नल महाशयस्तु सामविधानब्राह्मणभूमिकायां शङ्करकालं (652-680 A. D.) इति वदति । डा. फलीटमहाशयस्तु नेपालवंशावलीनामके प्रबन्धे (Page 118-123) नेपालदेवस्य वृषदेवाख्यस्य काले शङ्कर आसीत् । वृषदेवश्च (630-655 A. D.) काले आसीदिति वर्णयति । सूर्यनारायणरावमहाशयस्तु (I. A. Vol. XLIII Page 272) अष्टमशतकीयश्शङ्कर इति प्रतिपादयति । डा. बंदरकार महाशयस्तु सूत्रभाष्ये (2-4-1, 4-3-5) बलवर्मा निर्दिष्टः । बलवर्मणश्च काल (767-785 A. D.) इति स एव शङ्करकाल इति वदति । (I. A. Vol. XLI Page 200) पत्रिकायाम् । प्रो. टेलीतु (I. A. Vol. IX Page 263) शङ्करकाल (788-820 A. D.) इति वदति । वेङ्कटेश्वराचार्यस्तु (J. R. A. S. 1916 Page 153) शङ्कराचार्यकालः (805-897 A. D.) इति वदति । पताक महाशयस्तु (3889-3921) (788-820 A. D.) Flf (I. A. Vol. XI page 174-175) वर्णयति । बालकृष्णप्पिल्लायमहाशयस्तु संक्षेपशारीरके मनुकुलादित्यः निर्दिष्टः । संक्षेपशारीरकारः सर्वज्ञात्मा शङ्करप्रशिष्यस्सुरेश्वरशिष्यश्चेति (978 A.D.) कालिकेन भास्कररविवर्मणा शिलाशासने शङ्करस्य नाम निर्दिष्टमिति शङ्करकालः दशमशतकादिमः भाग इति (I. A. Vol. I Page 136) प्रतिपादयति । K. A. नीलकण्ठशास्त्री तु ``येनाधीतानि शास्त्राणि भगवच्छङ्कराह्वयात् । निःशेषसूरिमूर्धालिमालालीढाङ्घ्निपङ्कजात् । सर्वविद्यैकनिलयो वेदवित् विप्रसम्भवः । शासको यस्य भगवान् रुद्रो इवापरः ।" इति पद्यं शिवसोमकालिकायाश्शिलालेखायाः ज्ञायते । शिवसोमश्च (877-889 A. D.) कालिकस्य इन्द्रवर्मणो गुरुरिति शङ्करकाल (877 A. D.) पर्यन्तं स्याद्वेति सन्देग्धि । प्रतिपादितञ्चैतत् (J. O. R. Vol. XI Page 265) । अडयार पुस्तकाल्यस्थेऽमुद्रितेऽज्ञातकर्तृके ब्रह्ममीमांसाशास्त्रसंग्रहे 845 सं (788 A. D.) शङ्करकाल इति दृश्यते । श्रीकण्ठशास्त्री तु भारतीयैतिहासिकत्रैमासिकपत्रिकायाश्चतुर्दशतमे भागे (I. H. Q. Vol. XIV Page 401) धर्मकीर्तिसामयिकश्शङ्कराचार्य इति (620 A. D.) कालान्नार्वाचीन इति प्रतिपादयति । T. R. चिन्ताामणिमहाशयस्तु (560-650 A. D.) कालमध्यवर्ती शङ्कर इति प्रतिपादयति । म. म. कुप्पुस्वामि शास्त्रिणश्च (632-664 A. D.) इति प्रतिपादयन्ति ।

शङ्कराचार्यग्रन्थाः-

यद्यपि शङ्कराचार्यकृता इति बहवो ग्रन्थाः मुद्रिताः प्रसिद्धाश्च तथापि ते सर्वे शङ्कराचार्यकृता इत्यत्र न प्रमाणम् । परन्तु तत्सिम्हासनारूढैश्शिष्यप्रशिष्यैर्विरचित इति ज्ञेयम् । परन्तु अधोनिर्दिष्टाः ग्रन्थाशशङ्करकृता इत्यत्र न संशयः ॥

कृतयः

  • अद्वैतपञ्चरत्नम्

    S. M. E. Vol 16

    सोपानपञ्चकापरनामायं ग्रन्थश्शङ्कराचार्यस्मारकग्रन्थावल्यां श्रीरङ्गनगरे मुद्रितः । अस्य व्याख्याः - कृष्णानन्दसरस्वतीकृता ``किरणावली," विमलभूधरकृता व्याख्या, अज्ञातकर्तृका दीधीतिनाम्नी व्याख्या, अज्ञातकर्तृका अपरा व्याख्या च विद्यन्ते ॥

  • अद्वैतानुभूतिः

    S. M. E. Vol 16

    प्रकरणग्रन्थोऽयं वाणीविलासमुद्रणालये मुद्रितः ।

  • अध्यात्मविद्योपदेशविधिः

    अज्ञानबोधिनी `अध्यात्मविद्योपदेशः' `आत्मज्ञानोपदेश' इत्यादिनामान्तरमस्य दृश्यते । प्रकारणग्रन्थोऽयं चौखाम्बामुद्रणालये मुद्रितः । अस्य व्याख्याः आनन्दगिरिकृता, अनन्तराममुनिकृता ``सम्प्रदायतिलकम्," पुराणानुभवकृता ``दीपकनाम्नी," पूर्णानन्दकृता व्याख्या च विद्यन्ते ॥

  • अनात्मश्रीविगर्हणम्

    S. M. E. Vol 16

    प्रकरणग्रन्थोऽयं मुद्रितः ।

  • अपरोक्षानुभूतिः

    S. M. E. Vol 15

    147 पद्यैः पूर्णोऽयं प्रकरणग्रन्थश्शाङ्करप्रकरग्रन्थावल्यां मुद्रिताः अस्यैव ``अपरोक्षानुभवामृत" मित्यपि नामान्तरं श्रूयते । अस्य व्याख्याः-चण्डेश्वर शर्मकृता `दीपिका,' नित्यानन्दानुचरकृतं विवरणम्, बालगोपालयतिकृता व्याख्या विद्यारण्यकृता `व्याख्या' अज्ञातकर्तृका काचन व्याख्या च वर्तते ॥

  • आत्मबोधः

    S. M. E. Vol 15

    अज्ञानबोधिनी बोधार्यापरनामायं प्रकरणग्रन्थः 68 पद्यैः पूर्णः जीवात्मनोरभेदं जीवन्मुक्तदशाञ्च प्रतिपादयति । मुद्रितश्चायं ग्रन्थश्शाङ्करप्रकरणग्रन्थावल्याम् । अस्य व्याख्याः- अद्वयानन्दकृता व्याख्या चिदानन्दकृता ``आत्मबोधलहरी," पद्मपादाचार्यकृता `वेदान्तसारः,' बोधेन्द्रकृता `भावप्रकाशिका,' भासुरानन्दकृता व्याख्या, मधुसूदनसरस्वतीकृता व्याख्या, रघुनाथसरस्वतीकृता व्याख्या, रामानन्दतीर्थकृता व्याख्या, विश्वेश्वरपण्डितकृता दीपिका च विद्यन्ते । कृष्णानन्द सरस्वतीकृता व्याख्या ग्रन्थलिप्यां मुद्रितः । ब्रह्मानन्दकृता आत्मबोधव्याख्या, चित्सुखशिष्यकृता व्याख्या, अद्वयानन्दसरस्वतीकृता व्याख्या, अद्वैतानन्दसरस्वतीकृता व्याख्या च विद्यन्त इति श्रूयते । हलषसूच्यांं तु विद्यारण्यकृता व्याख्या च निर्दिष्टा । रघुनाथसरस्वतीकृता व्याख्या तु (AL. BRD) पुस्तकालये लभ्यते । आनन्दगिरिकृता टीका वाराणसीविश्वविद्यालये अमुद्रिता विद्यते । (D. C. VII P. No. 130)

  • आत्मानात्मविवेकः

    VVP

    प्रकरणग्रन्थोऽयं वाणीविलासमुद्रणालये मुद्रितः । अस्य व्याख्याः- पूर्णानन्दतीर्थकृता व्याख्या, वासुदेवयतिकृता व्याख्या, सदाशिवेन्द्रसरस्वतीकृता `प्रकाशिका' स्वयम्प्रकाशयतिकृता व्याख्या, च विद्यन्ते । सायमाचार्येण पद्भपादाचार्येण व्याख्या कृतेति श्रूयते । अज्ञातकर्तृका वेदान्तचूर्णिकानाम्नी च विद्यते ।

  • उपदेशसाहस्री

    S. M. E. Vol 14

    गद्यपद्यात्मकभागद्वयमितोऽयं प्रकरणग्रन्थः अद्वैतवेदान्तखनिः । मुद्रितश्चायं शाङ्करप्रकरणग्रन्थावल्याम् । अस्य व्याख्याः- आनन्दगिरिकृता व्याख्या, अखण्डधामकृता ``गूढार्थदीिका" बोधनिधिकृता व्याख्या रामतीर्थकृता `पदयोजनिका' च विद्यन्ते । त्र्यम्वकभट्टकृता व्याख्या उज्जैनसूच्यां दृश्यते । अज्ञातकर्तृकव्याख्या मद्रासराजकीयपुस्तकालये लभ्यते ।

  • एकश्लोकः

    S. M. E. Vol. 16

    किं ज्योतिःश्लोक इत्यपरनामायं ग्रन्थः शाङ्करप्रकरणग्रन्थावल्यां मुद्रितः । दिग्विजययात्रायै विश्वं सञ्चरन् कदाचित् शङ्कराचार्यः कस्मिंश्चित् ग्रामविशेषे, कूश्माण्डमिव पाण्डुराङ्गं, उलूकमिव सूर्याबलोकनाक्षमं, लज्जयावनतमुखं मां त्राहि त्राहि इति पुनः पुनः प्रणमन्तं कञ्चन कुष्ठिनं सा धनचतुष्टययुतमवलोक्य संसारसङ्कटान्मोचयन् कृती कर्तुं परमकारुणिकोऽयं भगवान् शङ्कराचार्यः प्रश्नप्रतिवचनप्रणाल्या श्लोकमेनं निबबन्ध इति साम्प्रदायिकी कथा श्रूयते । अस्य व्याख्या - स्वयम्प्रकाश यतिकृता ``तत्वदीपनाख्या" (स्वात्मदीपनम्) विद्यते ।

  • काशीपञ्चकम्

    वाणीविलासमुद्रणालये मुद्रितः ।

  • कौपीनपञ्चकम्

    S. M. E. Vol. 16

    यतिपञ्चकापरनामायं ग्रन्थः श्रीरङ्गक्षेत्रे मुद्रितः ।

  • ज्ञानाङ्कुशम् सविवरणम्

    मनोनिग्रहोपायप्रतिपादनपरोऽयं ग्रन्थः अद्वैतसभापत्रिकायां मुद्रितः ।

  • दशश्लोकी

    S. M. E. Vol. 15

    अद्वैतदशकम्, निर्वाणदशकम्, इत्यपरनामायं ग्रन्थ वाराणस्यां वाणीविलासमुद्रणालये च मुद्रितः । अस्य व्याख्यामधुसूदनसरस्वतीकृता सिद्धान्तबिन्दुनाम्नी प्रसिद्धा । विश्वेश्वरकृतापि व्याख्या विद्यते । कुत्रचिगस्यैव चिदानन्दस्तवराजः, चिदानन्ददशश्लोकीत्यपि नामान्तरं श्रूयते ।

  • निर्वाणषट्कम्

    S. M. E. Vol. 16

  • पञ्चरत्नमालिका

    S. M. E. Vol. 16

    आत्मपञ्चिका, अद्वैतपञ्चिका, उपदेशपञ्चकम् , पञ्चरत्नकारिका इत्यपरनामायं ग्रन्थः वाणीविलासमुद्रणालये मुद्रितः । अस्य व्याख्याः अभिनवनारायणेन्द्रकृता, पाण्डुरङ्गपण्डितकृता प्रकाशाख्या, सदाशिवब्रह्मकृता, सुब्रह्मण्यकृता, दीधितिनाम्नी अज्ञातकर्तृका, मुमुक्षुजनकल्पवल्लीनाम्नी अज्ञातकर्तृका च व्याख्या विद्यन्ते । ग्रन्थोऽयं शङ्कराचार्यकृत इति प्रसिद्धिः । परन्तु अमुद्रिते मद्रासराजकीयहस्यलिखितपुस्तकालयस्थेऽऽदर्शापुस्तके (D. 4632 MGOML) ``शङ्काराचार्यः प्रकटयति" इति दर्शनात् नायं शङ्करकृतिरिति प्रतिभाति ।

  • पञ्चीकरणम्

    S. M. E. Vol 16

    वेदान्तसारपञ्चीकरणनामायं ग्रन्थश्शाङ्करप्रकरणग्रन्थावल्यां मुद्रिताः । अस्य व्याख्याः - अन्तरारामकृता ``समाधिप्रक्रिया", अभिनवनारायणेन्द्रकृता भावप्रकाशिका, आनन्दज्ञानकृतं विवरणम्, प्रज्ञानानदयतिकृतं बिवरणम् , रामतीर्थकृता तत्वचन्द्रिका, स्वयम्प्रकाशयतिकृतं विवरणम् , अज्ञातकर्तृका तत्वपञ्चिका, अज्ञातकर्तृका व्याख्या, सुरेश्वराचार्यकृतं पञ्चीकरणवार्तिकम् ।

  • प्रबोधसुधाकरः

    S. M. E. Vol 16

    प्रकरणग्रन्थोऽयं वाणीविलासमुद्रणालये मुद्रितः । ग्रन्थोऽयं नृसिम्हचम्पूकर्त्रा षोडशशतकीयेन दैवज्ञसूर्यसूरिपण्डितेन कृतस्स्यादिति अडयार बुल्लट्टन पत्रिकायाः प्रथमे भागे, (AOR Vol VI) पत्रिकायाञ्च प्रतिपादितम् ।

  • प्रश्नोत्तररत्नमाला

    S. M. E. Vol 16

  • प्रौढानुभूतिप्रकरणम्

    S. M. E. 16

    सप्तदशभिः पद्यैः पूर्णोऽयं ग्रन्थः जीवन्मुक्तस्य स्वानुभवप्रकटनपद्धत्या रचितः । वाणीविलासमुद्रणालये मुद्रितश्च ।

  • ब्रह्मानुचिन्तनम्

    S. M. E. Vol 16

    ब्रह्मानुसन्धानापरनामायं ग्रन्थः वाणीविलासमुद्रणालये मुद्रितः ।

  • मनीषापञ्चकम्

    S. M. E. Vol 16

    कदाचित् शङ्कराचार्यः काशीपुरीं प्रति ययौ । तत्र शङ्काराचार्यस्य ज्ञानपरीक्षायै भगवान् चण्डालस्वरूपमुपादाय समागतः । चण्डालस्वरूपं दृष्ट्ववा गच्छ गच्छ इति वदन्तं शङ्कराचार्यं स चण्डालः ``अन्नमयादन्नमयं अथवा चैतन्यादेव चैतन्यं, यतिवर किं दूरीकर्तुं वाञ्छसि ? शरीरयोरनयोरन्नकार्यत्वादिति पप्रच्छ ।" तत्प्रश्नस्य प्रतिवचनाय शङ्काराचार्यैर्मनीषापञ्चकं प्रणीतमिति कथा प्रसिद्धा । प्रतिचरणं ``मनीषा मम" इति दर्शनात् अस्य मनीषापञ्चकमिति नाम । अद्वैतसिद्धान्तसारभूतोऽयं प्रकरणग्रन्थश्शाङ्करग्रन्थमालायां मुद्रितः । अस्य व्याख्याः-गोपालबालयतिकृता ``मधुमञ्जरी", नृसिम्हाश्रमिकृता `मधुमञ्जरी' वासुदेवन्द्रकृता व्याख्या, सदाशिवब्रह्मेन्द्रकृता तात्पर्यदीपिका, अज्ञातकर्तृकं लघुविवरणम्, अज्ञातकर्तृका व्याख्या च विद्यन्ते ।

  • मायापञ्चकम्

    मायाविवरणापरनामायं ग्रन्थः मायाया अधटितधटनापटीयस्त्वं वर्णयति । ग्रन्थोऽयं शाङ्करप्रकरणग्रन्थावल्यां (S. M. E. 16) मुद्रितः ।

  • मोहमुद्गरः

    S. M. E. Vol. 16

    द्वादशमञ्जरिकापरनामायं ग्रन्थः भजगोविन्दस्तोत्रमित्यपि व्यपदिश्यते । मुद्रितोऽयं ग्रन्थः । अस्य व्याख्या द्वादशमञ्जरी ``मकरन्द" नाम्नी स्वयम्प्रकाशयतिकृता तिरुवनन्तपुरपुस्तकालये मद्रासराजकीयहस्तलिखितपुस्तकालये च लभ्यते ॥

  • लघुवाक्यवृत्तिप्रकरणम्

    S. M. E. Vol. 16

    प्रकरणग्रन्थोऽयं वाणीविलासमुद्रणालये मुद्रितः । रामानन्दसरस्वतीकृता प्रकाशिका नाम्नी, अज्ञातकर्तृका ``पुष्पाञ्जलि" नाम्नी च व्याख्या वर्तते । तत्र पुष्पाञ्जलिः रामभद्रयतिशिष्यरामानन्दकृता इति हालसूच्याः 107 पुटे दृश्यते ।

  • वाक्यवृत्तिः

    ASS 80, S. M. E. Vol. 15

    गुरुशिष्यकथासरण्या विरचितोऽयं प्रकरणग्रन्थस्त्रिपञ्चाशद्भिः पद्यैः पूर्णो जीवब्रह्मणोरैक्यं महावाक्यार्थञ्च प्रतिपादयति । अस्य व्याख्याः आनन्दज्ञानकृता व्याख्या, आन्दस्वरूपभट्टारककृता वाक्यदीपिका, रामानन्दसरस्वतीकृता प्रकाशिका, विश्वेश्वरपण्डितकृता प्रकाशिका, अज्ञातकर्तृका लघुटीका च ॥

  • विवेकचूडामणिः

    S. M. E. Vol. 14

    आत्मानात्मविवेकचूडामण्यपरनामायं ग्रन्थः वाणीविलासमुद्रणालये मुद्रितः । अस्य व्याख्या रत्नस्वामिशिष्येण हरिनाथभट्टेन कृता काचन वाराणस्यां मुद्रिता । अपरा अज्ञातकर्तृका च विद्यतेऽमुद्रिता । शृङ्गगिरिशङ्करपीठाधीशैः श्रीमच्चन्द्रशेखरभारतीस्वामिभिः कृता काचन व्याख्या पाण्डित्यपूर्णा मुद्रिता लभ्यते ।

  • वेदान्तसारः

    S. M. E. Vol. 15

    वेदवेदान्तसारः, सर्ववेदान्तसिद्धान्तसारसङ्ग्रह इत्यपरनामायं ग्रन्थः 124 पद्यैः पूर्णः वाणीविलासमुद्रणालये मुद्रितः ॥

  • शतश्लोकी

    S. M. E. 15

    वेदान्तशतश्लोक्यपरनामायं ग्रन्थ आनन्दज्ञानेन व्याख्यातः, स्रग्धरावृत्त घटितश्च वाणीविलासमुद्रणालये मुद्रितश्च । अज्ञातकर्तृका व्याख्या काचन बरोडापुस्तकालये बाम्बे युनिवर्सिटिपुस्तकालये च लभ्यते । लन्दननगरहस्तलिखित पुस्तकालयेऽपि लभ्यते ।

  • षट्पदी

    G. N. P. B

    आर्यावृत्तघटितैः पद्यैः पूर्णोऽयं ग्रन्थ अद्वैतब्रह्मात्मकभगवत्स्तुतिरूपः । मुद्रितश्चायं गोपालनारायणमुद्रणालये बाम्बे नगरे । अस्य व्याख्याः कविसरोजभिक्षुकृता, वैकुण्ठशिष्यकृता, शङ्करानन्दतीर्थकृता च षट्पदमञ्जरी नाम्नी प्रसिद्धा ॥

  • सदाचारप्रकरणम्

    S. M. E. Vol. 16

    सदाचारानुसन्धानमित्यपि व्यपदिश्यतेऽयं ग्रन्थः । आत्मसाक्षात्कारोपायभूतं सदाचारं प्रतिपादयन्नयं ग्रन्थः वाणीविलासे मुद्रितः । ग्रन्थोऽयं अच्युतशर्मामोडकेन शुद्धधर्मपद्धत्याख्यया व्याख्यया व्याख्यातः ।

  • सनत्सुजातीयभाष्यम्

    S. M. E. Vol. 13

    महाभारतोद्योगपर्वान्तर्गतस्य विधुरप्रार्थनाप्रेरितसनत्सुजातधृतराष्ट्रसंवादात्मकस्य ग्रन्थस्य व्याख्यारूपोऽयं ग्रन्थः वाणीविलासमुद्रणालये मुद्रितः काण्डद्वयातीतयोगिना मोक्षसाम्राज्यलक्ष्मीतन्त्रनाम्न्या व्याख्यया, नीलकण्ठकृतया च व्याख्यया व्याख्यातः ।

  • सर्ववेदान्तसिद्धान्तसंग्रहः

    S. M. E. Vol. 15

    सर्वदर्शनसिद्धान्तः, सर्वसिद्धान्तसंग्रहः, वेदान्तशास्त्रसिद्धान्तसंग्रहः, वेदान्तसिद्धान्तदीपिका, सर्ववेदान्तसिद्धान्तसरसंग्रह इत्यपरनामायं ग्रन्थः द्वादशभिः प्रकरणैः पूर्णः भारतीयानां विभिन्नानां दर्शनानां सिद्धान्तान् प्रतिपादयति । मुद्रितश्चायं वाणीविलासमुद्रणालये । अस्य व्याख्या शेषगोविन्दकृता च विद्यते ।

    ग्रन्थोऽयं शङ्करादर्वाचीनेन केनापि कृतं स्यादिति (ABORI Vol. XII Page 253) पत्रिकायां प्रतिपादितम् । ``अर्थतोऽप्यद्वयानन्दमतीतद्वैत लक्षणम् । आत्माराममहं वन्दे श्रीगुरुं शिवविग्रहम्" । इत्यमुद्रिते अडयारपुस्तकालये च दर्शनात् प्रथमसदानन्दप्रशिष्येण अद्वयानन्दशिष्येण द्वितीयसदानन्देन कृतस्स्यादिति (J. O. R. Vol. XIII, AOR. Vol. VI) पत्रिकयोः प्रतिपाद्यते ।

  • स्वरूपानुसन्धानाष्टकम्

    S. M. E. Vol. 16

    भुजङ्गप्रयातछन्दोबद्धोऽयं विज्ञाननौकापरनामा ग्रन्थ अष्टभिः पद्यैः पूर्णः वाणीविलासमुद्रणालये मुद्रितः । अस्य व्याख्या आनन्दज्ञानकृत ``स्वरूपविवरण"नाम्नी, पद्मपादकृता ``स्वरूपानुभव"नाम्नी, श्रीकुदकृता ``पदव्याख्या"नाम्नी च विद्यन्ते ॥

  • स्वात्मनिरूपणम्

    S. M. E. Vol. 16

    स्वात्मप्रकाशिका, स्वात्मानन्दप्रकरणम् , वेदान्तार्या, अनुभूतिरत्नमाला, स्वात्मानन्दप्रकाशिका, इत्यादिनामभिः व्यपदिश्यमानोऽयं ग्रन्थः देहेन्द्रियादिभिन्न आत्मस्वरूपमेकं प्रतिपादयति । मुद्रितश्चायं शाङ्करप्रकरणग्रन्थावल्यां वाणीविलासमुद्रणालये । अस्य व्याख्या सच्चिदानन्दसरस्वतीकृता अमुद्रिता विद्यत इत्यन्यत्र प्रतिपादितम् ॥

  • हस्तामलकीयभाष्यम्

    हस्तामलकाचार्यकृतविवेकमञ्जरीव्याख्यात्मकोऽयं ग्रन्थः वाणी विलासमुद्रणालये मुद्रितः ।

  • ईशावास्योपनिषद्भाष्यम्

    ASS 5

    ग्रन्थोऽयमानन्दाश्रममुद्रणालये मुद्रितः । अस्य व्याख्याः - आनन्दगिरिकृता शिवानन्दयतिकृता च विद्येते ।

  • ऐतरेयोपनिषद्भाष्यम्

    ASS 11

    मुद्रितश्चायं ग्रन्थ आनन्दाश्रममुद्रणालये । अस्य व्याख्याः - अभिनवनारायणेन्द्रकृता, आनन्दज्ञानकृता, ज्ञानामृतयतिकृता, उपनिषद्ब्रह्मेन्द्रकृता, विद्यातीर्थकृता, च विद्यन्ते । नृसिह्मकृता, बालकृष्णदासकृताश्च भाष्यव्याख्या विद्यन्त इति वदन्ति । परन्तु ताः कुत्र लभ्यन्त इति न ज्ञायते । सीतानाथतत्वभूषणेन काचन व्याख्या कृता । सा च भारतकार्यलयमुद्रितपुस्तकालयपुस्तकसूच्यां लन्दननगरस्थायां (IOLPC Vol II Part I Page 64) दृश्यते ।

  • कठोपनिषद्भाष्यम्

    ASS 7

    मुद्रितश्चायं ग्रन्थ आनन्दाश्रममुद्रणालये । अस्य व्याख्याः - अच्युतकृष्णानन्दकृता, अभिनवनारायणेन्द्रकृता, आनन्दगिरिकृता, गोपालबालयतिकृता, शिवानन्दयतिकृत, श्रीधरशास्त्रिकृता च विद्यन्ते ।

  • केनोपनिषद् भाष्यम्

    ASS 6

    पदवाक्यभाष्यभेदेन भिन्नं भाष्यद्वयमपि आनन्दाश्रमे मुद्रितम् । अस्य व्याख्या अभिनवनारायणेन्द्रकृता, आनन्दगिरिकृता, शिवानन्दयतिकृता, श्रीधरशास्त्रीपाठककृता च व्याख्याः विद्यन्ते ।

  • छान्दोग्योपनिषद् भाष्यम्

    ASS 14

    मुद्रितोऽयं ग्रन्थ आनन्दाश्रममुद्रणालये । अस्य व्याख्याः-अभिनवनारायणेन्द्रकृता, आनन्दगिरिकृता, च विद्येते । नरेन्द्रपुरीकृता काचन भाष्यटिप्पणी मद्रासराजकीय पुस्तकालये लभ्यते ।

  • तैत्तरीयोपनिषद् भाष्यम्

    ASS 12

    ग्रन्थोऽयं आनन्दाश्रमे वाणीविलासे च मुद्रितः । अस्य व्याख्याः आनन्दगिरिकृता, अच्युतकृष्णानन्दकृता वनमालाख्या, सुरेश्वराचार्यकृतं वार्तिकम्, अभिनवद्रविडाचार्यबालकृष्णानन्दसरस्वतीकृतं भाष्यविवरणमिति व्याख्याः विद्यन्ते ।

  • नृसिम्हतापनीय भाष्यम्

    ASS. 30

    (D. 581. MGOML) ग्रन्थोऽयं वाणीविलासेऽऽनन्दाश्रमे च सुद्रितः ।

  • प्रश्नोपनिषद्भाष्यम्

    ASS 18

    आनन्दाश्रमे मुद्रितः । अभिनवनारायणेन्द्रकृता आनन्दगिरिकृता उप निषद्ब्रह्मेन्द्रकृता, शिवानन्दयतिकृता अज्ञातकर्तृका व्याख्याः विद्यन्ते ॥

  • ब्रह्मसूत्रभाष्यम्

    N. S. P.

    शारीरकमीमांसाभाष्यापरनामायं ग्रन्थः निर्णयसागरमुद्रणालयेऽन्यत्र च मुद्रितः । अस्य व्याख्याः - अद्वैतानन्दकृतं ब्रह्मविद्याभरणम् , अनन्तकृष्णाशास्त्रिकृतः प्रदीपः, अनन्यानुभवकृता शारीरकन्यायमणिमाला, अनुभूतिस्वरूपाचार्यकृत प्रकटार्थविवरणम्, आनन्दगिरिकृतः न्यायनिर्णयः, उपनिषद्ब्रह्मेन्द्रकृतः भाष्यसिद्धान्तसंग्रहः, कृष्णशास्त्रिकृतानुगुण्यसिद्धिः, रामानन्दकृता रत्नप्रभा, चित्सुखाचार्यकृता भाष्यभावप्रकाशिका, ज्ञानोत्तमकृता विद्याश्रीः, त्र्यम्बकशास्त्रिकृता भाष्यानुप्रभा (भाष्यभानुप्रभा) नारायणसरस्वतीकृतं भाष्यवार्तिकम्, पद्मपादाचार्यकृता पञ्चपादिका, बालकृष्णानन्दकृतं भाष्यवार्तिकम् , ब्रह्मानन्दयतिकृतं भाष्यवार्तिकम् , ब्रह्मानन्दयतिकृतः भाष्यार्थसंग्रहः, वाचस्पतिमिश्रकृता भामती, शिवनारायणानन्दकृता सुबोधिनी, कृष्णानुभूतिकृतः भाष्यसिद्धान्तसंग्रहः, प्रकाशात्मकृता भाष्यन्यायसंग्रहाख्याश्च व्याख्याः प्रसिद्धतमाः ॥

  • बृहदारण्यकोपनिषद्भाष्यम्

    ASS 16

    आनन्दाश्रममुद्रणालये वाणीविलासमुद्रणालये च मुद्रितः । अस्य आनन्दगिरिकृता, शिवानन्दयतिकृता, महादेवेन्द्रसरस्वतीकृता, सुरेश्वराचार्यकृतं वार्तिकञ्चेति व्याख्यास्सन्ति ।

  • भगवद्गीताभाष्यम्

    N. S. P.

    निर्णयसागर-वाणीविलास-आनन्दाश्रममुद्रणालयेषु मुद्रितः । अस्य व्याख्याः - अनुभूतिस्वरूपाचार्यकृता, आनन्दगिरिकृता, केशवसाक्षिभगवत्पादकृता, रामानन्दकृता, भागवतानन्दकृताश्च विद्यन्ते ।

  • माण्डूक्योपनिषद्भाष्यम्

    ASS 10

    सव्याख्योऽयं ग्रन्थः वाणीविलासमुद्रणालयेऽऽनन्दाश्रममुद्रणालये च मुद्रितः आनन्दगिरिकृता मधुरानाथशुक्लकृता, राघवानन्दकृता, अज्ञातकर्तृकाश्च व्याख्यास्सन्ति ।

  • माण्डूक्यकारिकाभाष्यम्

    ASS 10

    गौडपादकारिकाभाष्यापरनामायं ग्रन्थ आनन्दाश्रमे मुद्रितः । अस्य आनन्दगिरिकृता, अनुमूतिस्वरूपकृताश्च व्याख्याः विद्यन्ते ॥

  • मुण्डकोपनिषद् भाष्यम्

    ASS 9

    ग्रन्थोऽयं वाणीविलासआनन्दाश्रममुद्रणालययोर्मुद्रितः । अस्य व्याख्या - अभिनवनारायणेन्द्रकृता, आनन्दगिरिकृता, शिवानन्दयतिकृताश्च विद्यन्ते ॥

  • श्वेताश्वतरोपनिषद्भाष्यम्

    ASS 17

    भाष्यमिदं शङ्कराचार्यकृतमिति प्रसिद्धं आनन्दाश्रमे मुद्रितञ्च । परन्तु नेदं शङ्कराचार्यकृतमिति वर्णितं उनिषत्प्रस्थाने ।

  • अच्युताष्टकम्

  • अन्नपूर्णाष्टकम्

  • अर्धनारीश्वरस्तोत्रम्

  • आनन्दलहरी

  • उमामहेश्वरस्तोत्रम्

  • कनकधारास्तोत्रम्

  • कल्याणवृष्टिस्तवः

  • कालभैरवाष्टकम्

  • काशीपञ्चकम्

  • कृष्णाष्टकम्

  • गणेशपञ्चरत्नम्

  • गणेशभुजङ्गम्

  • गुर्वष्टकम्

  • गोविन्दाष्टकम्

  • गौरीशतकम्

  • गङ्गाष्टकम्

  • जगन्नाथाष्टकम्

  • त्रिपुरसुन्दरीवेदपादस्तोत्रम्

  • त्रिपुरसुन्दरीमानसपूजास्तोत्रम्

  • त्रिपुरसुन्दर्यष्टकम्

  • दक्षिणामूर्तिवर्णमालास्तोत्रम्

  • दक्षिणामूर्त्यष्टकम्

  • दशश्लोकीस्तुतिः

  • देवीचतुःषष्ठ्युपचारस्तोत्रम्

  • देवीभुजङ्गम्

  • नवरत्नमालिका

  • नर्मदाष्टकम्

  • निर्गुणमानसपूजा

  • पाण्डुरङ्गाष्टकम्

  • प्रातस्स्मरणस्तोत्रम्

  • भवानीभुजङ्गम्

  • भगवन्मानसपूजा

  • भ्रमराम्बाष्टकम्

  • मणिकर्णिकाष्टकम्

  • मृत्युञ्जयमानसपूजास्तोत्रम्

  • मन्त्रमातृकापुष्पमालास्तवः

  • मोहमुद्गरः

  • मीनाक्षीस्तोत्रम्

  • यमुनाष्टकम्

  • रामभुजङ्गप्रयातम्

  • लक्ष्मीनृसिम्हकरुणास्तोत्रम्

  • ललितात्रिशतीभाष्यम्

  • ललितापञ्चरत्नम्

  • विष्णुसहस्रनामभाष्यम्

  • विष्णुभुजङ्गप्रयातम्

  • विष्णुपादादिकेशान्तवर्णनम्

  • वेदसारशिवस्तोत्रम्

  • शारदाभुजङ्गप्रयाताष्टकम्

  • शिवपञ्चाक्षरनक्षत्रमालास्तोत्रम्

  • शिवनामावल्यष्टकम्

  • शिवकेशादिपादान्तवर्णनम्

  • शिवपादादिकेशान्तवर्णनम्

  • शिबभुजङ्गम्

  • शिवापराधक्षमापनस्तोत्रम्

  • शिवानन्दलहरी

  • षट्पदीस्तोत्रम्

  • सुब्रह्मण्यभुजङ्गम्

  • सौन्दर्यलहरी

    अस्य व्याख्याः- अरिच्छित्कृता ``सुधाविद्योतिनी" । अमुद्रिता व्याख्येयं तिरुवनन्तपुरपुस्तकालये (C. O. L. 116 F.) लभ्यते । अस्यां व्याख्यायां सौन्दर्यलहरी प्रवरसेनेन कृतेति दृश्यते । प्रवरसेनाख्यः काश्चित् क्षत्रिय आसीत् । तस्य पिता द्रमिडाख्यः कश्चन राजा । माता वेदवतीनाम्नी । शुकाख्यः मन्त्री स च प्रवरसेनजननकालरीत्या द्रमिडस्य राज्यच्युतिमुवाच । भीतः द्रमिडः स्वपुत्रं प्रवरसेनं गिरिमूर्धनि तत्याज । क्षुधिताय तस्मै बालाय प्रवरसेनाय भगवती परमेश्वरी स्तन्तं पाययामास । स्तन्यपानलब्धवैदुष्यः प्रवरसेनः भगवतीस्तोत्ररूपां सौन्दर्यलहरी चकार । अत एव ``तव स्तन्यं मन्ये" इत्यादिना निर्दिश्यते । प्रवरसेनस्य कश्चित्पुत्रः वन्यायां भार्यायामुत्पन्नः । तस्य नाम अरिच्छिदिति । अनेन कृतेयं सुधाविद्योतिनीति कथापि दृश्यते ।

    अन्ये तु ``तव स्तन्यं मन्ये" इति श्लोके दृश्यमानः द्रविडशिशुशब्दः तमिलभाषाशैवसाहित्यप्रसिद्धः तिरुज्ञानसम्बन्धनायनारिति वदन्तः पूर्वोक्तां कथामधिक्षिपन्ति ।

    कौवल्याश्रमकृता सौभाग्यवर्धिनी, नरसिम्हकृता व्याख्या, डिण्डिमरामकविकृता व्याख्या, लक्ष्मीधरकृता लक्ष्मीधरा, अज्ञातकर्तृका विद्वान्प्ननोरमा, सदाशिवकृता व्याख्याश्च मद्रासराजकीहस्तलिखितपुस्तकालये लभ्यन्ते ।

  • हरिस्तुतिः

  • हनूपत्पञ्चरत्नम्

  • सुवर्णमालास्तोत्रम्

  • द्वादशलिङ्गस्तोत्रम्

    अन्योऽपि प्रपञ्चसाराख्यः तन्त्रशास्त्रग्रन्थः विरचितः । एवमन्येऽपि शङ्कराचार्यकृता इति मुद्रिता अमुद्रिताश्च बहवः ग्रन्था उपलभ्यन्ते । परन्तु नामान्तरेण निर्दिष्टा एत एव ग्रन्था इति विभावनीयम् ।